मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् १

संहिता

इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥

पदपाठः

इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।
म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥

सायणभाष्यम्

हे इंद्र एहि । अस्मिन्कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः सोमपर्वभिः सोमरसरूपैरंधसोंऽधोभिरन्नैर्मत्सि । माद्य । हृष्टो भव । तत ऊर्ध्वमोजसा बलेन महान्भूत्वाभिष्टिः शत्रूणामभिभविता भवेति शेषः । अष्टाविंशतिसंख्याकेषु बलानामस्वोजः पाज इति पठितं ॥ आ इहि । आद्गुणः (पा ६-१-८७) इंद्र एहि । यो ह्युभयोः । स्थाने लभतेऽसावन्यतरव्यपदेशमित्याङ्माङोरेकादेशस्याङ् व्यपदेशादोमाङोश्च (पा ६-१-९५) इति पररूपम् । मत्सि । माद्य । मदी हर्षग्ल पनयोः । लोटः सिप् । सर्वे विधयश्छंदसि विकल्प्यंत इति सेर्हिरादेशः (पा ३-४-८७) न भवति । दिवादिभ्यः श्यन् (पा ३-१-६९) इति श्शन् । बहुलं छंदसीति श्यनो लुक् । न लुमतांगस्य (पा १-१-६३) इति प्रत्ययलक्षणप्रतिषेधाच्छमामष्टनां दीर्घः श्यनि । पा ७- -७४ । इत्युपधादीर्घो न भवति । सिपः पित्त्वाद्धातुस्वर एव । अंधसः । अदेर्नुम् धश्च (उ ४-२०५) इत्यसुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । अशिप्रुषीत्यादिना (उ १-१५१) क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशो बहुलं छंदसीति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणंति पूरयंतीति सोमपर्वाणः सोम रसा । पृ पालकपूरणयोः । अन्येभ्योऽपि दृश्यंत इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वाद्धातुस्वर एव । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिरभिगंता । इष गतौ । मंत्रे वृषेत्यादिना (पा ३-३-९६) क्तिन्नुदात्तः । स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वाल्लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु । च (पा ७-२-९) इतीडागमो न भवति । अभिशब्दस्येकार एमनादिषु पररूपं वक्त्यव्यम् । पा ६-१-९४-६ । इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । ओजसा । उब्जेर्बलोपश्च (उ ४-१९१) इत्यसुन् । नित्त्वादाद्युदात्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७