मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् २

संहिता

एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥

पदपाठः

आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ।
चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥

सायणभाष्यम्

ईमित्यनर्थकः पादपूरणाय प्रयुक्तः । हे अध्वर्यवः सुतेऽभिषुते चमसस्थे सोम एनं सोममिंद्रायेंद्रार्थमासृजत । पुनरभ्युन्नयत । शुक्रामंथिचमसगणे पुनरभ्युन्नयनमापस्तंबेनोक्तम् । होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति । आप १२-२३-४ । इति । कीदृशमेनंमंदिं हर्षहेतुं चक्रिं साधुकरणशीलम् । कीदृशायेंद्राय । मंदिने हर्ष युक्ताय विश्वानि सर्वाणि कर्माणि चक्रये कृतवते । सर्वकर्मनिष्पादनशीलाये । त्यर्थः । ईमित्यस्य पादपूरणार्थत्वं यास्क आह । अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रंथेषु वाक्यपूरणा आगच्छंति पदपूरणास्ते मिताक्षरेष्वनर्थका कमीमिद्विति (नि १-९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छंदोराहित्येन परिमिता । क्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्थ द्रष्टव्याः । मिताक्षरेषु छंदोयुक्तेषु ग्रंथेषु पादपूरणार्थाः । ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्यायैतामृचमुदाजहार । एमेनं सृजता सुते । आसृजतैनं सुते (नि १-१०) इति ॥ एनम् । इदमो द्वितीयायां द्वितीयाटौः स्वेनः (पा २-४-३४) इत्येनादेशोऽनुदात्त इत्यनुवृत्तेः सर्वानुदात्तः । सृजत । संहितायामन्येषामपिदृश्यते (पा ६-३-१३७) इति दीर्घः । मंदिम् । प्रमोदहेतुम् । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । इदितो नुम् । धातोरिति नुम् । मंदमानं प्रयुंक्त इत्यर्थे हेतुमति च (पा ३-१-२६) इति णिच् । ण्यंतस्याजंतत्वादच इः (उ ४-१३८) इतीकारप्रत्ययः । णेरनिटीति णिलोपः । प्रत्ययस्वरेणांतोदात्तत्वं मुंदिने । मंदेः पूर्ववत् । चतुर्थ्यैकवचनेऽनपुंसकस्यापि (पा ७-१-७३) व्यत्य । येन नुमागमः । चक्रिम् । डुकृञ् करणे । आदृगमहनजनः किकिनौ लिट् च पा ३-२-१७१ । इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वाद्गुणाभावः । यणादेशः । लिड्वद्भावाद्द्विर्वचनम् । द्विर्वचनेऽचि (पा १-१-५९) इति यणादेशस्य स्थानिवद्भावात्कृशब्दो द्विरुच्यते । अभ्यासस्योरत्वरपरत्वश्चुत्वहलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रय इति कृदंतेन योगेऽपि कर्तृकर्मणोः कृति (पा २-३-६५) इति षष्ठी न भवति । किकिनौ लिट् चेति किनो लिड्वद्भावेन न लोकाव्ययनिष्ठाखलर्थतृनाम् (पा २-३-६९) इति निषेधात् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७