मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् ७

संहिता

सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥

पदपाठः

सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् ।
वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥

सायणभाष्यम्

हे इंद्र श्रवो धनमस्मे सं धेहि । अस्मभ्यं सम्यक् प्रयच्छ । कीदृशं श्रवः । गोमत् बह्वीभिर्गोभिरुपेतं वाजवत् प्रभूतेनान्नेनोपेतं पृथु परिमाणेनाधिकं बृहत् गुणैरधिकं विश्वायुः कृत्स्नायुष्यकारणं अक्षितं विनाशरहितं गोमत् । वाजवत् । उभयत्र मतु पोऽनुदात्तत्त्वात्प्रातिपदिकस्वर एव । वाजशब्दो वृषादिराद्युदात्तः । अस्मे । अस्मच्छब्दाच्चतुर्थीबहुवचनस्य सुपां सुलुगित्यादिना शे आदेशः । शित्त्वात्सर्वादेशः । प्रातिपदिकस्वरेणांतोदात्तत्वम् । शेषे लोपष्टिलोप इति पक्षे (पा ७-२-९०) उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अंत्यलोपपक्षेऽतो गुण इति पररूप एकादेश उदात्तेनोदात्त इत्युदात्तत्वम् । पृथु । प्रथ प्रख्याने । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (उ १-२९) इति कुप्रत्ययः । रेफस्य संप्रसारणमृकारः । परपूर्वत्वम् । कोः कित्त्वान्न लघूपधगुणः । श्रूयत इति श्रवो धनम् । असुन्प्रत्ययः । नित्त्वादाद्युदात्तः । बृहत् । प्रातिपदिकस्वरः । विश्वायुः । विश्वमायुर्यस्मिन्दने । विश्वशब्दः क्वन्प्रत्ययांतः । तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादिश्छंदसि बहुलमिति पूर्वपदांतोदात्तत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । अक्षितम् । क्षि क्षय इत्यस्मादंतर्णीतण्यर्थात्कर्मणि निष्ठा । तेन स्यदर्थत्वान्निष्ठायामण्यदर्थे (पा ६-४-६०) इति न दीर्घत्वम् । अत एव क्षियो दीर्घात् (पा ८-२-४६) इति न निष्ठानत्वम् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८