मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९, ऋक् १०

संहिता

सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
इन्द्रा॑य शू॒षम॑र्चति ॥

पदपाठः

सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।
इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥

सायणभाष्यम्

आकार इच्छब्दश्च पादपूरणौ । यद्वा । व्याप्तिवचन आकारः । अङीषदर्थेऽभिव्याप्तौ । अम । ३-४-३२ । इत्यभिधानात् । इच्छब्दोऽपिशब्दार्थः । इयर्ति गच्छत्यनुष्ठेयं कर्म प्राप्नोतीत्यरिर्यजमानः । एदरिः सर्वोऽपि यजमान इंद्राय सुते सुत इंद्रार्थमभिषुते तत्तत्सोमे शूषं बलमर्चति स्तौति । इंद्रस्य पराक्रमं प्रशंसतीत्यर्थः । कीदृशं शूषम् । बृहत् प्रौढम् । कीदृशायेंद्राय । न्योकसे नियतस्थानाय बृहते प्रौढाय ॥ सुते सुते । षुञ् अभिषवे । क्तप्रत्ययः प्रत्ययस्वरेणोदात्तः । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमिति द्वितीयस्याम्रेडितत्वेनानुदात्तं च । पा । ८-१-३ । इत्यनुदात्तत्वम् । न्योकसे । नियतमोको यस्य तस्मै । निशब्ङो निपाता आद्युदात्ता इत्युदात्तः । तस्य यणादेश उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (पा ८-२-४) इत्योकारः स्वरितः । बृहते । बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इत्यजादिविभक्तेरुदात्तत्वम् । अरिः । ऋ गतौ । अच इः (उ ४-१३८) इतीकारप्रत्ययः । गुणो रपरत्वम् । प्रत्ययस्वेरेणेकार उदात्तः । इंद्राय । ऋच्रेंद्रेत्यादिना रन्प्रत्यय इकार उदात्तः । शूषम् । प्रातिपदिकस्वरः । अर्चति । निघातस्वरः ॥ १८ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८