मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ३

संहिता

यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥

पदपाठः

यु॒क्ष्व । हि । के॒शिना॑ । हरी॒ इति॑ । वृष॑णा । क॒क्ष्य॒ऽप्रा ।
अथ॑ । नः॒ । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ । गि॒राम् । उप॑ऽश्रुतिम् । च॒र॒ ॥

सायणभाष्यम्

हे सोमपाः सोमपानयुक्तेंद्र हरी त्वदियावश्वौ युक्ष्वा हि सर्वथा संयोजय । अथानंतरं नोऽस्मदीयानां गिरां स्तुतीनामुपश्रुतिं समीपे श्रवणमुद्दिश्य चर । तत्प्रदेशं गच्छ । कीदृशौ हरी । केशिना स्कंधप्रदेशे लंबमान केशयुक्तौ वृषणा सेचनसमर्थौ युवानौ कक्ष्यप्रा । अश्वस्योदरबंधनरज्जुः कक्ष्या तस्याः पूरकौ । पुष्टांगावित्यर्थः । युक्ष्व । श्नमो लोपश्छांदसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । केशिना । प्रशस्ताः केशा अनयोः संतीति मत्वर्थीय इनिः । प्रत्ययस्वरः । सुपां सुलुगित्यादिना द्विवचनस्याकारादेशः । वृषणा । पृषु वृषु मृषु सेचने । कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । उ । १-१५६ । इति कनिन् । ञ्नित्यादिर्नित्यमित्याद्युदात्तः । वा षपूर्वस्य निगमे (पा ६-४-९) इत्युपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्ष्ययोर्भवं कक्ष्यं सूत्रं तत्प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ । प्रा पूरणे । आतोऽनुपसर्गे कः (पा ३-२-३) इति कप्रत्ययः । कृदुत्तरपदप्रकृति स्वरेणांतोदात्तत्वम् । आकारः । पूर्ववत् । अथ । निपातस्येति संहितायां दीर्घः । नः अनुदात्तं सर्वमपादादावित्यनुवृत्तौ बहुवचनस्य वस्नसौ (पा ८-१-२१) इति नदादेशोऽनुदात्तः । इंद्र सोमपा । उभावामंत्रितस्य चेति सर्वानुदात्तौ । गिराम् । सावेकाचस्तृतीयादिर्विभक्तिरिति विभक्तिरुदात्त । उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तादौ च निति कृत्यतौ (पा ६-२-५०) इति तुवर्जिततादिपरत्वाद्गतेः प्रकृतिस्वरः । चर । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९