मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ४

संहिता

एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥

पदपाठः

आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ ।
ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥

सायणभाष्यम्

विशेषविनियोगस्तु यत्र श्रौतो न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिसूत्रतः ॥ एहि स्तोमानित्यृगेषा सूत्रे विशेषाकारेण न विनियुक्ता । साधारणविनियोगस्तु ब्रह्मयज्ञादौ सर्वत्रानुसंधेयः ॥

हे वसो निवासकारणभूतेंद्र एहि । अस्मिन्कर्मण्यागच्छ । आगत्य च स्तोमानुद्गातृप्रयुक्तानि स्तोत्राण्यभि स्वर । अभिलक्ष्य प्रशंसारूपं शब्दं कुरु । तथा होतृप्रयुक्तानि शस्त्राण्यालक्ष्य रुव । शब्दं कुरु । परितोषेण सर्वानृत्विजः प्रशंसेत्यर्थः । तत ऊर्ध्वं नोऽस्माकं ब्रह्म चान्नं च यज्ञं चानुष्ठीयमानं कर्म च सचा सह वर्धय । सांगत्वसंपादनेन यज्ञं वर्धयित्वा तत्फलमन्नं च प्रवृद्धं कुरु । अंध इत्यादिष्वष्वाविंशत्यन्ननामसु ब्रह्म वर्च इति पठितं ॥ इहि । इण् गतौ । सेर्हिः । हेरपित्त्वेन ङित्त्वाद्गुणाभावः । निघातः । आङा सह गुण एकादेश उदात्तेनोदात्त इत्युदात्तः । स्तोमान् । अर्तिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तः । उत्तरपदेन संहितायां नकारस्य दीर्घादट समानपाद इति रुत्वम् । आतोऽट नित्यमित्याकारस्यानुनासिकः । भोभगोअघो अपूर्वस्य योऽशीति यत्वम् । तस्य लोपः शाकल्यस्येति लोपः । तस्यासिद्धत्वात्स्वरसंधिर्न भवति । अभि । एवमादीनामंतॆ इत्यंतोदात्तः । स्वर । स्वृ शब्दोपतापयोः । निघातः । अभि । गतम् । गृणीहि । गृ शब्धे । सेर्ह्यपिच्छेति हिः । क्र्यादिभ्यः श्ना । ई हल्यघोः (पा ६-४-११३) इतीत्वम् । प्वादीनां ह्रस्वः (पा ७-३-८०) इत्यृकारस्य ऋकारः । ऋवर्णाच्चेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । तिङ्ङतिङ इति निघाशः । रुव । रु शब्दे । सेर्ह्यपिच्च । शपि प्राप्ते व्यत्ययेन शः । तस्य ङत्वेन गुणाभावादुवङादेशः । अतो हेरिति हेर्लुक् । तिङ्ङतिङ इति निघातः । ब्रह्म । तृहि वृहि वृद्धौ । मनिन्नित्यनुवृत्तौ वृंहेरम् न लोपश्च (उ ४-१४५) इति मनिस् । तत्संनियोगेन नलोपः । आमागमश्च । मिदचोंऽत्यात्परः (पा १-१-४७) इत्यैकारात्परः । यणादेशः । मनिनो नित्त्वादाद्युदात्तत्वम् । वसो । आमंत्रितनिघातः । यज्ञम् । यजयाचेत्यादिना (पा ३-३-९०) नङ् । प्रत्ययस्वरः । वर्धय । निघातः । अत्र चकारद्ययश्रवणादियमेव तिङ् विभक्तिः पूर्ववाक्येष्वनुषज्यते । अतोऽनुषक्तैव प्रथमा न श्रुतेत्यश्रुतायाश्च वायोगे प्रथमा (पा ८-१-५९) इति निघातनिषेधो न भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९