मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ५

संहिता

उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥

पदपाठः

उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । वर्ध॑नम् । पु॒रु॒निः॒ऽसिधे॑ ।
श॒क्रः । यथा॑ । सु॒तेषु॑ । नः॒ । र॒रण॑त् । स॒ख्येषु॑ । च॒ ॥

सायणभाष्यम्

अभिप्लवषडहगतोक्थ्येष्वच्छावाकस्य तृतीयसवन उक्थमिंद्राय शंस्यमित्यनुरूपस्तैचः । एह्यू ष्विति खंड इंद्रं विश्वा अवीवृधन्नुक्थमिंद्राय शंस्यम् (आ ७-८) इति सूत्रितं ॥

इंद्रायेंद्रार्थं वर्धनं वृद्धिसाधनमुक्थं शस्त्रं शंस्यम् । अस्माभिः शंसनीयम् । कीदृशायेंद्राय । पुरुनिष्षिधे बहूनां शत्रूणां निषेधकारिणे । शक्र इंद्रो नोऽस्मदीयेषु सुतेषु पुत्रेषु सख्येषु च सखित्वेष्वपि यथा येन प्रकारेण रारणत् अतिशयेन शब्धं कुर्यात्तथा शंस्यमिति पूर्वत्रान्वयः । अस्म दीयेन शस्त्रेण परितुष्ट इंद्रोऽस्माकं पुत्रानस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः ॥ उक्थम् । वचेस्थक्प्रत्यय उक्तः (उ २-७) प्रत्यय स्वरः । शंस्यम् । शन्सु स्तुतौ । ण्यंतादचो यत् । णेरनिटीति णिलोपः । तित्स्वरिते प्राप्ते यतोऽनाव इत्याद्युदात्तत्वम् । वर्धनम् । करणाधिकरणयोश्च (पा ३-३-११७) इति करणे ल्युट् । लितीति प्रत्ययपूर्वस्योदात्वत्वम् । पुरुनिष्षिधे । बहूनां शत्रूनां निषेधकाय । षिध गत्याम् । धात्वादेः षः सः । अत्र निरित्युपसर्गस्य निशब्दसमानार्थस्य प्राक्प्रयोगः । क्विप्चेति क्विप् । क्विपः सर्वापहारी लोपः । कुगतिप्रादयः (पा २-२-१८) इति समासः । निसः सकारेणेणो व्यवधानं छांदसत्वादनादैत्योपसर्गात्सुनोतीत्यादिना (पा ८-३-६५) धातुसकारस्य षत्वम् । निसः सकारस्य ष्टुना ष्टुः (पा ८-४-४१) इति षत्वम् । पुरुशब्देन कर्मणि षष्ट्यंतेन समासः । षिधो धातुस्वरेणोदात्तत्वम् । निष्षिध इति प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्पुनः कारकसमासेऽपि स एव स्वरः । शक्नोतीति शक्रः । स्फायितंचिवंचिशकीत्यादिना (उ २-१३) रक् । प्रत्ययस्वरः । यथा । प्रकारवचने थाल् (पा ५-३-२३) लित्स्वरेण प्रत्ययात्पूर्वोऽकार उदात्तः । सुतेषु । क्तः प्रत्ययस्वरेणोदात्तः । नसो नकारस्य नश्चधातुस्थोरुषुभ्यः (पा ८-४-२७) इति संहितायां णत्वम् । रारणात् । रण शब्दार्थः । धातोरेकाचः (पा ३-१-२२) इति यङ् । यङोऽचि च (पा २-४-७४) इति लुक् । प्रत्ययलक्षणेन (पा ६-१-९) द्विर्भावो हलादिशेषः । दीर्घोऽकितः (पा ७-४-८३) इति दीर्घः । प्रत्ययलक्षणेन सनाद्यंता धातवः (पा ३-१-३२) इति धातुसंज्ञायां लिङर्थे लेट् (पा ३-४-७) इति हेतुहेतुमद्भावलक्षणे (पा ३-३-१५६) लिङर्धे लेट् । अत्र हींद्रकर्तृकं रारणनमुक्थशंसनस्य कर्तव्यत्वे हेतुः । लेटस्तिप् । इतश्च लोपः परस्मैपदेष्वितीकारलोपः । लेटोऽडाटावित्यडागमः । कर्तरि शप् । तस्य चर्करीतं परस्मैपदमदादिवच्च द्रष्टव्यमित्यदादिवद्भावाददिप्रभृतिभ्यः शप इति प्राप्तो लुग्बहुलं छंदसीति निषिध्यते । शपोऽनुदात्तत्वाद्धातोरंतोदात्त एव शिष्यते । शपा लसार्वधातुकस्य व्यवधानात्तत्र परतो विधीयमानमभ्यस्तानामादिरित्याद्युदात्तत्वं न भवति । न च तिङ्ङतिङ इति निघातः । अत्र यथाशब्दयोगेन यावद्यथाभ्याम् (पा ८-१-३६) इति निषेधात् । चवायोगे प्रथमेति वात्र निघातो न भविष्यति । अत्र ह्युत्तरवाक्ये सख्येषु चेति चानुकृष्ट विभक्त्य पेक्षयेयं प्रथमा तिङ् विभक्तिः । सख्येषु । सख्युः कर्माणि सख्यानि । तेषु । कर्मणि चेत्यनुवृत्तौ सख्युर्यः (पा ५-१-१२६) इति सखिशब्दाद्यप्रत्ययः । तत्र भसंज्ञायां यस्येति च (पा ६-४-१४८) इतीकारलोपः । प्रत्ययस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९