मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ६

संहिता

तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।
स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥

पदपाठः

तम् । इत् । स॒खि॒ऽत्वे । ई॒म॒हे॒ । तम् । रा॒ये । तम् । सु॒ऽवीर्ये॑ ।
सः । श॒क्रः । उ॒त । नः॒ । श॒क॒त् । इन्द्रः॑ । वसु॑ । दय॑मानः ॥

सायणभाष्यम्

सखित्वे निमित्तभूते सति तमित्तमेवेंद्रमीमहे । प्राप्नुमः । तथा राये धनार्थं तमीमहे । तथा सुवीर्ये शोभनसामर्थ्यनिमित्तं तमीमहे । उतापि च शक्रः शक्तिमान्स इंद्रो नोऽस्मभ्यं वसु धनं दयमानः प्रयच्छन् शकत् । अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदशयाच्ञा कर्मस्वीमहे यामीति पठितम् । तदनुसारेणेंद्रं याचामह इति व्याख्येयं ॥ सख्युर्भावः सखित्वम् । तस्य भावस्त्वतलौ (पा ५-१-११९) इति त्वः । प्रत्ययस्वरेणोदात्तः । ईमहे । ईङ् गतौ । ङित्त्वादात्मनेपदम् (पा १-३-१२) दिवादिभ्यः श्यन् । बहुलं छंदसीति श्यनो लुक् । तिङ्ङतिङ इति निघातः । राये । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुवीर्ये । शोभनं वीर्यं यस्यासौ सुवीर्यः भवितृवाचिनानेन भावो लक्ष्यते । सुवीर्यत्व इत्यर्थः बहुव्रीहावित्यनुवृत्तौ वीरवीर्यौ च । ६-२-१२० । इत्युत्तरपदाद्युदात्तत्वम् । शक्नोतीति शक्रः । स्फायितंचिवंचिशकीत्यादिना रक् । प्रत्ययस्वरः । शकत् । शक्लृशक्तौ । धातुसंबंधाधिकारे छंदसि लुङ् लङ् लिटः (पा ३-४-६) इति लुङ् । यतः शक्नोत्यतस्तमीमह इति धातुसंबंधः । लुङस्तिप् । पुषादिद्युताद्य्लृदितः परस्मैपदेषु (पा ३-१-५५) इति च्लेरङादेशः । बहुलं छंदसि (पा ६-४-७५) इत्यडाग माभावः । तिङ्ङतिङ इति निघातः । वसु । निदित्यनुवृत्तौ वसेरुप्रत्ययः (उ १-११) नित्त्वादाद्युदात्तत्वम् । दयमानः । दय दानगतिरक्षणहिंसादानेषु । अनुदात्तेत्वादात्मनेपदम् । लटः शानजादेशः (पा ३-२-१२४) शपः पित्त्वादनुदात्तश्वम् । शानचश्चित इत्यंतोदात्तत्वं बाधित्वादुपदेशाच्छप उत्तरत्वेन परत्वाल्लसार्वधातुकत्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते ॥ १९ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९