मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ७

संहिता

सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।
गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥

पदपाठः

सु॒ऽवि॒वृत॑म् । सु॒निः॒ऽअज॑म् । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ।
गवा॑म् । अप॑ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे इंद्र यशोऽन्नं कर्मफलभूतं सुविवृतं सुष्टु सर्वत्र प्रसृतं सुनिरजं सुखेन निःशेषं प्राप्तुं शक्यं त्वादातमित्त्वया शोधितं च संपन्नमिति शेषः इतः परं क्षीरादिरसलाभार्थं गवां व्रजं निवासस्थानमप वृधि । अपवृतमुद्घाटित व्वारं कुरु । हे अद्रिवः पर्वतोपलक्षितवज्रयुक्तेंद्र राधो धनं कृणुष्व । संपादय ॥ सुविवृतम् । वृञ् वरणे । कर्मणि क्तप्रत्ययः । विशब्देन प्रादिसमासः । विवृतमित्यत्र कृदुत्तरपदप्रकृतिस्वरं बाधित्वा कर्मवाचिनि क्तांते परतो गतिरनंतरः (पा ६-२-४९) इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्छंदसि बहुलम् । ६-२-१९९ । इत्यृकार उदात्तः । पुनः सुशब्देन समासे कृदुत्तरपदप्रकृतिस्वरेण स एवर्कार उदात्तः । ननु वृतमित्येव कृदंतं न तु विवृतमिति प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदंतस्य ग्रहणम् । परि २३ । इति वचनात् । सुविवृतमित्यत्र च समासे वृतमित्येतावन्मात्रं नोत्तरपदं किंतु विवृतमिति । तत्कथं कृदुत्तरपदप्रकृतिस्वरत्वमिति चेत् उच्यते । प्रत्ययग्रहणपरिभाषापवादेन कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । परि २८ । इत्यनेन विवृतमित्यस्यापि कृदंतव्यपदेरोपपत्तेः । ननु विवृतमित्यस्य यथा कृदंतव्यपदेशः । एवं क्तांतव्यपदेशोऽप्यस्ति तयैव परिभाषया । तथा च कर्मणि क्तांत उत्तरपदे परतो गतिरनंतर इति सुशब्दस्य प्रकृतिस्वरः प्राप्नोति । न चात्रापि परादिश्छंदसि बहुलमित्येवं नास्ति विस्तारः । तथा हि सति सुविवृतमित्यत्र विवृतमित्येवोत्तरपदमिति तदादिरिकार एवोदात्तः स्यात् । विवृतमिति समासे यद्यप्यृकारः पदादिर्भवति तथापि सुविवृतमिति समासस्य सति शिष्टत्वेन बलीयस्त्वात्तत्रत्य एवोत्तरपदादाविकार एवोदात्तस्वरेण भवितव्यमिति । उच्यते । गतिरनंतर इत्यत्रानुवृत्तेः क्तग्रहणे कृद्गृहणपरिभाषा नाश्रीयते । तदाश्रयणे व्यवहितगतावपि प्रकृतिस्वरे सत्यनंतरग्रहणमनर्थकं स्यात् । अनेनैव चाभिप्रायेणानंतरग्रहणस्य प्रयोजनमभ्युद्धृतमित्यत्र व्यवहितस्याभिशब्दस्य मा भूदिति प्रत्युदाहृतम् । तस्मात्सुविवृतमित्यृकार एवोदात्त इति स्थितम् । सुनिरजम् । अनायासेन निरवशेषं प्राप्यम् । अज गतिक्षेपणयोः । सुनिसोरुपसर्गयोः प्राक्प्रयोगः । ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (पा ३-३-१२६) न चात्र सुशब्दस्य निसा व्यवधानं शंकनीयम् । सुशब्दस्य ह्युपपदमात्रं खलो निमित्तं नानंतर्यम् । अत एव सुपरिहरं दुष्परिहरमित्यादयः प्रयोगा इति । पूर्ववद्गतिसमासे लीतीति प्रत्ययात्पूर्वमुदात्तमिति धात्वकार उदात्तः । निसा समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया कृदुत्तरपद प्रकृतिस्वरेण स एव शिष्यते । त्वादातम् । त्वया शोधनेन विशदीकृतम् । दैप् शोधने । आदेच उपदेशेऽशिति (पा ६-१-४५) इत्यात्वम् । सत्यपि हि पकारे नानुबंधकृतमनेजंतत्वं ॥ परि । ७ ॥ इत्येजंत एवायम् । निष्ठेति कर्मणि क्तः । दाधा घ्वदास् (पा १-१-२०) इत्यत्रादाबिति प्रतिषेधेन घुसंज्ञाया अभावाद्दो दद्घोः (पा ७-४-४६) इति ददादेशो न भवति । ननु दाप् लवन इति प्रतिपदोक्तस्यैव दापस्तत्रादाबिति निषेधः । न पुनर्लाक्षणिकस्य दैपः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्य । परि १०५ । इति नियमादिति चेन्न । गामादाग्रहणेष्वविशेषः । परि १०६ । इति प्रतिप्रसवात् । युष्मच्छब्दात्तृतीयैकवचनस्य सुपां सुलुगिति डादेशः ॥ त्वमावेकवचने (पा ७-२-९७) इति मपर्यंतस्य त्वादेशः । अतो गुण इति पर रूपत्वम् । भसंज्ञायां टीरित्यद्शब्दस्य लोप उदात्तनिवृत्तिस्वरेणाकार उदात्तः । कर्तृकरणे कृता बहुलाम् (पा २-१-३२) इति तृतीयासमासः । तत्पुरुषे कृति बहुलं पा ६-३-१४ । इति तृतीयाया अप्यलुक् । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यशः । अशू व्याप्तौ । अशेर्युट्च (उ ४-१९०) इत्यसुन् । तत्सन्नियोगेन धातोर्युडागमः । नित्त्वादाद्युदात्तत्वम् । गवां प्रातिपदिकस्वरः । सावेकाच इति विभक्तेरुदात्तत्वं प्राप्तम् । न गोश्व न्साववर्णेति निषिध्यते । वृधि । वृञ् वरणे । श्रुशृणुपृकृवृभ्यश्चंदसि (पा ६-४-१०२) इति हेर्धिरादेशः । बहुलं छंदसीति श्नोरपि लुक् । निघातः । कृणुष्व । कृवि । हिंसाकरणयोश्च । इदितो नुम् । व्यत्ययेनात्मने पदम् । लोटस्थास् । ३-४-७८ । थासः से (पा ३-४-८०) सवाभ्यां वामौ (पा ३-४-९१) कर्तरि शपि प्राप्ते (पा ३-१-६८) धिन्विकृण्व्योरच्च (पा ३-१-८०) इत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोपः (पा ६-४-४८) इति लोपः । अचः परस्मिन्पूर्वविधौ (पा १-१-५७) इत्यकारलोपस्य स्थानिवद्भावाल्लघूपदगुणो न भवति । अत्र सति शिष्टस्वर बलीयस्त्वमन्यत्र विकरणेभ्य इति सति शिष्टमपि विकरणस्वरं बाधित्वा तिङ एव प्रत्ययाद्युदात्तत्वम् । राधः । असुनंतो नित्त्वादाद्युदात्तः । अद्रिवः । अद्रिर्वज्रम् । तद स्यास्तीति मतुप् । छंदसीरः (पा ८-२-१५) इति वत्वम् । संबुद्धावुगिदचां पा ७-१-७० । इति नुम् । हल् ङ्यादिसंयोगांतलोपौ (पा ६-१-६८) मतुवसोरुः संबुद्धौ छंदसि (पा ८-३-१) इतिरुत्वम् । विसर्जनीयः । आमंत्रितस्य च निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०