मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ८

संहिता

न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।
जेष॒ः स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥

पदपाठः

न॒हि । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । ऋ॒घा॒यमा॑णम् । इन्व॑तः ।
जेषः॑ । स्वः॑ऽवतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य॑म् । धू॒नु॒हि॒ ॥

सायणभाष्यम्

हे इंद्र ऋघायमाणं शत्रुवधंकुर्वाणं त्वां रोदसी उभे द्यावापृथिव्यावपि त्वदीयं महिमानं नहीन्वतः । व्याप्तुं न समर्थे इत्यर्थः । तादृशत्त्वं स्वर्वतोः स्वर्लोकयुक्ता आपो वृष्टिरूपा जेषः । जयेः । प्रेरयेत्यर्थः । अपां स्वर्गसंबंधश्चान्यत्र दिवो वृष्टिं च्यावयति । तै सं ३-३-४-१ । इति श्रुतम् । किंच वृष्टिप्रदानादन्न संपत्तेरूर्ध्वमस्मभ्यं क्षीरादिरसप्रदा गाः सं धूनुहि । सम्यक् प्रेरय ॥ नहि । नञो हिशब्देन सह सुपा (पा २-१-४) इति समासः । समासत्वादंतोदात्तत्वम् । त्वा । अनुदात्तं सर्वमित्यनुवृत्तौ त्वामौ द्वितीयायाः (पा ८-१-२३) इति त्वादेशः । रोदसी । रुदेरसुन् । नित्त्वादाद्युदात्तः । उगितश्च (पा ४-१-६) इति ङीप् । उभे । प्रातिपदिकस्वरेणांतोदात्तः । श्या सदैकादेश उदात्तः । ऋघायमाणम् । नृन्हंतीत्यैघा । अन्येभ्योऽपि दृष्यंत इति विच् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थत्वान्न कारलोपो हकारस्य च घकारः । अनृघा ऋघा भवतीत्यभूततद्भावे लोहितादिदाज्भ्यः क्यष् (पा ३-१-१३) इति क्यष्प्रत्ययो भवति । स ह्या कृतिगणः । लोपश्च हलः (पा ३-१-१२) इत्यनुवृत्तेर्नकारलोपश्च । वा क्यषः (पा १-३-९०) इत्यात्मनेपदम् । लटः शानच् । शपोऽदुपदेशात्पराच्छानचो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । क्यषः प्रत्ययस्वरः । एकादेशस्योदात्तत्वम् । इन्वतः । इवि व्याप्तौ । इदितो नुम् धातोरिति नुम् । शपः पित्त्वादनुदात्तत्वम् । लडादेशस्य तसश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । हि चेति निषेधात्तिङ्ङतिङ इति निघातो न भवति । जेषः । जेः प्रार्थनायां लिङर्थे लेट् । तस्य मध्यमपुरुपैकवचनम् । सिप् । इतश्च लोपः परस्मैपदेष्वितीकारलोपः । कर्तरि शपि प्राप्ते तदपवादः सिब्बहुलं लेटीति सिप् । अडागमस्यानुदात्तत्वाद्धातुस्वर एव शिष्यते । स्वरासामस्तीति सर्वत्यः । न्यङ् स्वरौ स्वरितौ (फि ४-६) इति स्वर् शब्दः स्वरितः । मतुब्ङीपौ पित्त्वादनुदात्तौ । संहितायां स्वरितात्संहितायामनुदात्तानाम् (पा १-२-३९) इत्येकश्रुतिः । स्वरित एव शिष्यते । अपः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । धूनुहि । धूञ् कपंने । लोट् । सेर्ह्यपिच्च । स्वादिभ्यः श्नुः । उतश्च प्रत्ययादसंयोगपूर्वात् (पा ६-४-११६) इति प्राप्तस्य लुकश्छांदसत्वादभावः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०