मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् १०

संहिता

वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् ।
वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥

पदपाठः

वि॒द्म । हि । त्वा॒ । वृष॑न्ऽतमम् । वाजे॑षु । ह॒व॒न॒ऽश्रुत॑म् ।
वृष॑न्ऽतमस्य । हू॒म॒हे॒ । ऊ॒तिम् । स॒ह॒स्र॒ऽसात॑माम् ॥

सायणभाष्यम्

हे इंद्र त्वां विद्म । जानीमः । कीदृशं त्वाम् । वृषंतमं कामानामतिशयेन वर्षितां वाजेषु संग्रामेषु हवनश्रुतं अस्मदीयस्याह्वानस्य श्रोतारम् । वृषंतममस्यातिशयेन कामादीनां वर्षितुस्तवोतिं रक्षामस्मद्विषयामुद्दिश्य हूमहे । त्वामाह्वयामः । कीदृशीमूतिम् । सहस्रसातमामतिशयेन धनसहस्राणां दात्रीम् । विद्म । विदो लटो वा (पा ३-४-८३) इति मसो मादेशः । प्रत्ययस्वरेणांतोदात्तः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । वृषंतमम् । पृषु वृषु मृषु सेचने । कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः (उ १-१५६) इति कनिन् । नित्त्वादाद्युदात्तः । तमपः पित्त्वात्स एव शिष्यते । अयस्मयादीनि छंदसि (पा १-४-२०) इति भत्वेन पदत्वाभावान्न लोपाभावः (पा ८-२-७) वाजेषु । वाजशब्दो वृषादिराद्युदात्तः । हवनश्रुतम् । हू इत्यनुवृत्तौ बहुलं छंदसीति ल्युट संप्रसारणम् । हवनं शृणोतीति क्विप् । तुगागमः । वृषंतमस्य । उक्तम् । हूमहे बहुलं छंदसीति संप्रसारणम् । शप इत्यनुवृत्तौ बहुलं छंदसीति शपो लुक् । ऊतिम् । ऊतियूतीत्यादिनांतोदात्तो निपाशितः । सहस्रसातमाम् । सहस्रं सनोतीति सहस्रसाः । षणु दाने । जनसनखनक्रमगमो विट् (पा ३-२-६७) विड्वनोरनुनासिकस्यात् (पा ६-४-४१) इत्याकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वं तमपः पित्त्वादेव शिष्यते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०