मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् ११

संहिता

आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब ।
नव्य॒मायु॒ः प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥

पदपाठः

आ । तु । नः॒ । इ॒न्द्र॒ । कौ॒शि॒क॒ । म॒न्द॒सा॒नः । सु॒तम् । पि॒ब॒ ।
नव्य॑म् । आयुः॑ । प्र । सु । ति॒र॒ । कृ॒धि । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥

सायणभाष्यम्

हे इंद्र तु क्षिप्रं नोऽस्मान्प्रत्या गच्छेति शेषः । हे कौशिक कुशिकस्य पुत्रेंद्र मंदसानो हृष्टो भूत्वा सुतमभिषुतं सोमं पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेंद्रस्यैवोत्पन्नत्त्वात्कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तांतोऽनुक्रमणिकायामुक्तः । कुशिकस्त्वैषीरथिरिंद्रतुल्यं पुत्रमिच्छन्प्रह्मचर्यं चकार । तस्येंद्र एव गाथी पुत्रो जज्ञे । अनु । ऋग्वे ३-१ । इति । हे इंद्र नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरमायुर्जीवितं प्र सू तिर । प्रकर्षेण सुष्वु वर्धय । ततो मां सहस्रसां सहस्रसंख्या कलाभोपेतमृषिमतींद्रयद्रष्टारं कृधि । कुरु ॥ तु । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणामिति दीर्घः । नः । संहितायामुदात्तादनुदात्तस्य स्वरितः । इंद्र । आमंत्रितनिघातः । कौशिक । निघातः । मंदसानः । हृष्यन् । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । आसानजित्शनु वृत्तावृंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इत्यसानच् प्रत्ययः । चित्त्वादंतोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम् । णु स्तुतौ । अचो यत् । गुणः । वांतो यि प्रत्यये (पा ६-१-७९) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । आयुः । उसिनिदित्यनुवृत्तावेतेर्णिच्च (उ २-११९) इत्युसिप्रत्ययः णित्ताद्वृद्ध्यायादेशौ । नित्त्वादाद्युदात्तत्वम् । सु । निपातस्य चेति संहितायां दीर्घत्वम् । शिर । तरतेर्व्यत्ययेन शः । ऋत इद्धातोः (पा ७-१-१००) इतीत्वम् । अतो हेरति हेर्लुक् । कृधि । डुकृञ् करणे । बहुलं छंदसीति शपो लुक् । श्रु शृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । सहस्रसाम् । उक्तम् । ऋषिम् । ऋषी गतौ । इन्नित्यनुवृत्ताविगुपधात्किच्च । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०