मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०, ऋक् १२

संहिता

परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।
वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥

पदपाठः

परि॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः॑ ।
वृ॒द्धऽआ॑युम् । अनु॑ । वृद्ध॑यः । जुष्टाः॑ । भ॒व॒न्तु॒ । जुष्ट॑यः ॥

सायणभाष्यम्

प्रवर्ग्ये परि त्वेत्यभिष्वुयात् । स्पृष्व्वोदकमिति खंडे परि त्वा गिर्वणो गिरोऽधि द्वयोरधधा उक्थ्यं वचः (आ ४-६) इति सूत्रितम् । तथा हविर्धानप्रवर्तने सेयं परिधानीया । हविर्धाने प्रवर्तयंतीति खंडे परि त्वा गिर्वणो गिर इति परिदध्यात् (आ ४-९) इति सूत्रितम् । तथा ब्रह्मणं च । परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति । ऐ ब्रा १-२९ । इति ॥

हे गिर्वणोऽस्मदीयस्तुतिभागिंद्र विश्वतः सर्वेषु कर्मसु प्रयुज्यमाना इमा गिरोऽस्मदीया स्तुतयस्त्वा त्वां परि भवंतु । सर्वतः प्राप्नुवंतु । कीदृश्यो गिरः । वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्य वृद्धयो वर्धमानाः । किंचैता गिरो जुष्टास्त्वया सेविताः सत्यो जुष्टयोऽस्माकं प्रीतिहेतवो भवंतु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणाः । वन षण संभक्तौ । सर्वधातुभ्योऽसुन् । गिर उपधाया दीर्घाभावश्छांदसः । आमंत्रितनिघातः । विश्वतः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ । क्तप्रत्ययः । उदितो वा (पा ७-२-५६) इतीटः क्त्वाप्रत्यये विकल्पितत्वाद्यस्य विभाषा (पा ७-२-१५) इति निष्ठायामिडभावः । प्रत्ययस्वरः । इण् गतौ । छंदसीणः (उ १-२) इत्यृण् । णित्त्वाद्द्यद्धिः । आयादेशश्च । वृद्धमायुर्यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः वृधेः क्तिनि तितुत्रतथसिसुसरकसेषु च (पा ७-२-९) इतीडभावः । नित्त्वादाद्युदात्तत्वं जुष्टाः । श्विदितो निष्ठायाम् (पा ७-२-२४) इतीडभावः । जुष्टार्पिते इत्यनुवृत्तौ नित्यं मंत्रे (पा ६-१-२१०) इत्याद्युदात्तत्वम् । जुष्टयः । जुषी प्रीतिसेवनयोः क्तिन् । तितुत्रेतीडभाव । नित्त्वादाद्युदात्तः ॥ २० ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०