मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् १

संहिता

इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥

पदपाठः

इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ ।
र॒थिऽत॑मम् । र॒थिना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥

सायणभाष्यम्

विश्वाः सर्वा गिरोऽस्मदीयाः स्तुतय इंद्रमवीवृधन् । वर्धितवत्यः । कीदृशमिंद्रम् । समुद्रव्यचसं समुद्रवद्व्याप्तवंतं रथीनां रथयुक्तानां योद्धृणां मध्ये रथीतमं अतिशयेन रथयुक्तं वाजानामन्नानां पतिं स्वामिनं सत्पतिं सतां सन्मार्गवर्तिनां पालकं ॥ विश्वाः । विशेः क्वन् । नित्सर्वः । अवीवृधन् । वृधेर्णिचि चङ्युर्ऋदित्यनुवृत्तौ नित्यं छंदसि (पा ७-४-८) इत्यृकारस्य ऋकारविधानाल्लघूपधगुणाभावः । निघातस्वरः । समुद्रव्यचसम् । व्यचेरसुन् । गाङ्कुटादिभ्योऽञ्णिन्ङित् (पा १-२-१) इति प्राप्तस्य ङित्वस्य व्यचेः कुटादित्वमनसि । पा १-२-१-१ । इत्यसिनिषेधाद्ग्रहिज्येत्यादिना ङिति विधीयमानं संप्रसारणम् (पा ६-१-१६) न भवति समुद्रव्यच इव व्यचो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रथीतमं रथीनां रथशब्दादुत्पन्नस्येनश्छांदसं दीर्घत्वम् । प्रत्ययस्वरेणोदात्तत्वं च । वाजानाम् । वृषादित्त्वादाद्युदात्तत्वम् । सत्पतिम् । पत्यवैश्वर्ये (पा ६-२-१८) इति पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१