मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् २

संहिता

स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥

पदपाठः

स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः॑ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ ।
त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता॑रम् । अप॑राऽजितम् ॥

सायणभाष्यम्

हे शवसस्पते बलस्य पालकेंद्र ते तव सख्येऽनुग्रहप्रयुक्ते सखित्वे वर्तमाना वयं वाजिनोऽन्नवंतो भूत्वा मा भेम । शत्रुभ्यो भीतिं प्राप्ता माभूम । अतस्त्वामुभयहेतुमभि प्रणोनुमः । सर्वतः प्रकर्षेण स्तुमः । कीदृशं त्वाम् । जीतारं युद्धेषु जयशीलं अपराजितं क्वापि पराजयरहितं ॥ सख्ये । सख्युः कर्म सख्यम् । सख्युर्यः (पा ५-१-१२६) प्रत्ययस्वरः । वाजिनः । वाजोऽन्नमेषामस्तीसि वाजिनः । प्रत्ययस्वरः । भेम । ञिभी भये । लुङुत्तमबहुवचनं मस् । नित्यं ङितः (पा ३-४-९९) इति सलोपः । बहुलं छंदसीति च्लेर्लुक् । छंदस्युभयथेति तिङ आर्धधातुकत्वेन ङित्त्वाभावाद्गुणः । न माङ्योगे (पा ६-४-७४) इत्यडागमप्रतिषेधः । शवसस्पते । शवसः षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (पा ८-३-५३) इति विसर्जनीयस्य संहितायां सत्वम् । सुबामंत्रितपरांगवद्भावेन (पा २-१-२) पदद्वयनिघातः । नोनुमः । णु स्तुतौ । णो नः (पा ६-१-६५) इति नत्वं यङो लुक् । प्रत्यय लक्षणेन सन्यङोरिति द्विर्भावः । गुणो यङ्लु कोः (पा ७-४-८२) इत्यभ्यासस्य गुणः । प्रत्ययलक्षणेन धातुसंज्ञायां लटो मस् । अदादिवद्भावाच्छपो लुक् । उपसर्गादसमासेऽपि णोपदेशस्य (पा ८-४-१४) इति संहितायां णत्वम् । जेतारम् । जि जये । ताच्छील्यादिषु तृन् । ञ्नित्यादिर्नित्यम् (पा ६-१-१९७) इत्याद्युदात्तत्वम् । अपराजितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ उदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१