मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् ३

संहिता

पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥

पदपाठः

पू॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः॑ ।
यदि॑ । वाज॑स्य । गोऽम॑तः । स्तो॒तृऽभ्यः॑ । मंह॑ते । म॒घम् ॥

सायणभाष्यम्

इंद्रस्य संबंधिन्यो रातयो धनदानानि पूर्वीरनादिकालसिद्धाः प्रभूता वा । अस्येंद्रस्य सर्वदा यष्वृभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं सतीदानींतनोऽपि यजमानः स्तोतृभ्य ऋत्विग्भ्यो गोमतो गोसहितस्य वाजस्यान्नस्य पर्याप्तं मघं धनं यदि मंहते दक्षिणारूपेण दधाति तदानीमूतये बहुधन दानपूर्वकाणींद्रस्यास्मद्विषयाणि रक्षणानि न वि दस्यंति । विशेषेण नोपक्षीयंते । मघं रेक्ण इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु मघशब्दः पठितः । दाति दाशतीत्यादिषु दशसु दानकर्मसु मंहत इति पठितं ॥ पूर्वीः । पुरुशब्दस्य वोतो गुणवाचनादिति ङीष् । अद्यस्योकारस्य दीर्घश्चांदसः । जसि दीर्घाज्जसि चेति निषेधं बाधित्वा वा छंदसि (पा ६-१-१०६) इति पूर्वसवर्णदीर्घत्वम् । ङीषः प्रत्ययस्वरेणोदात्तत्वम् । रातयः । मंत्रे वृषेषपचमनविदभूवीरा उदात्तः (पा ३-३-९६) इति क्तिन उदात्तत्वम् । दस्यंति । दसु उपक्षये । दिवादिभ्यः । श्यन् । निघातः । ऊतयः । ऊतियूतीत्यादिना क्तिन्नुदात्तः । यदि । निपातत्वादाद्युदात्तः । संहितायां निपातस्य चेति दीर्घत्वम् । स्तोतृभ्यः । ष्टञ् स्तुतौ । धात्वादेः षः सः । तृचश्चित्त्वा दंतोदात्तत्वम् । मंहते शपः पित्त्वादुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण तिङ्ङतिङ इति निघातो न भवति निपातैर्यद्यदिहंतेति निषेधात् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१