मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् ४

संहिता

पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥

पदपाठः

पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ ।
इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥

सायणभाष्यम्

अभिप्लवषडहस्योक्थ्येषु तृतीयसवनेऽच्छावाकस्य पुरां भिंदुर्युवा कविरिति स्तोत्रियस्तृचः । तथा च सूत्रितम् । एह्यू ष्वित्यु पक्रम्य पुरां भिंदुर्युवाकविर्वृषा ह्यसि राधसे (आ ७-८) इति ॥

अयमिंद्र उच्यमानगुणयुक्तोऽजायत । संपन्नः । कीद्रग्गुणक इति तदुच्यते । पुरामसुरपुराणां भिंदुर्भेत्ता युवा कदाचिदपि वलीपलितादिवार्धकरहितः कविर्मेधावी अमितौजाः प्रभूतबलः विश्वस्य कर्मणः कृत्स्नस्य ज्योतिष्टोमादेर्धर्ता पोषकः वज्री यजमानरक्षणार्थं सर्वदा वज्रयुक्तः । पुरुष्वुतो बहुविधे तत्तत्कर्मणि स्तुतः ॥ भिंदुः । भिदिर् विदारणे । कुरित्यनुवृत्तौ पृभिदिव्यधिधृषिद्रशिभ्यः (उ १-२४) इति कुप्रत्ययः । तस्य छंदस्युभयथेति सार्वधातुकसंज्ञायां रुधादिभ्यः श्नम् (पा ३-१-७८) मित्त्वादंत्यादचः परो भवति (पा १-१-४७) श्नसोरल्लोपः । अनुस्वारपरसवर्णौ (पा ८-४-५८) आचः परस्मिन्पूर्वविधौ (पा १-१-५७) इति प्राप्तस्य स्थानिवद्भावस्य न पदांतेत्यादिना (पा १-१-५८) निषेधः । युवा । यु मिश्रणामिश्रणयोः । कनिन्युवृषितक्षिराजिधन्विद्युप्रतदिवः (उ १-१५६) इति कनिन् । नित्त्वादाद्युदात्तः । कविः । कु शब्दे । अच इः (उ ४-१३८) इतीः । प्रत्ययस्वरः । अमितौजाः । अमितशब्दस्याव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । विश्वस्य । अशिप्रुषीत्यादिना (उ १-१५१) क्वन् । नित्त्वादाद्युदात्तः । कर्मणः । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्स्वरः । धर्ता । तृच् । चित्तादंतोदात्तः । वज्री । मत्वर्थीय इनिः । प्रत्ययस्वरः । पुरुष्वुतः । स्तुतस्तोमयोश्छंदसि (पा ८-३-१०५) इति षत्वम् । बहुषु प्रदेशेषु स्तुतः । थाथघञ् क्ताजबित्रकाणाम् (पा ६-२-१४४) इत्यंतोदात्तत्वं तृतीयासमासे हि थाथादिस्वरापवादस्तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरः स्यात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१