ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
तान् । उ॒श॒तः । वि । बो॒ध॒य॒ । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥
हे अग्ने यद्यस्मात्मारणाद्दूतं यासि देवानां दूतकर्म प्राप्नोषि तस्मात्कारणादुशतो हविः कामयमानांस्तान् देवान् हविः स्वीकारार्थं वि बोधय । विबोध्य च बर्हिष्यस्मिन्कर्मणि तैर्देवैः सह आ सत्सि । आसीद । आगत्योपविश ॥ तान् । दीर्घादट समानपाद इति संहितायां रुत्वम् । आतोऽट नित्यमित्यनुनासिकभावः । उशतः । वश कांतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । ग्रहिज्येत्यादिना संप्रसारणम् । शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । यासि । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । दूतस्य भागः कर्म वा दूत्यम् । दूतस्य भागकर्मणी (पा ४-४-१२०) इति यत् । तस्य तित्स्वरितापवादत्वेन यतोऽनाव इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छंदसि विकल्प्यंत इति निवर्तते । अतस्तित्स्वरितमित्येव भवति । शेषनिघातः । सत्सि । सीदसि । षदलृ् विशरणगत्यवसादनेषु लटः सिपि शपो बहुलं दसीति लुक् । न लुमतांगस्येति प्रत्ययलक्षणप्रतिषेधात् पुघ्रेत्यादिना (पा ७-३-७१) सीदादेशो न भवति । बर्हिषि । वृह वृहि वृद्धौ । वृर्हेनलोपश्च (उ २-११०) इतीसिप्रत्ययः । प्रत्ययस्वरेणेकार उदात्तः ॥ ४ ॥