मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ८

संहिता

यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।
तस्य॑ स्म प्रावि॒ता भ॑व ॥

पदपाठः

यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ ।
तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥

सायणभाष्यम्

हे अग्ने देव यो हविष्पतिर्यजमानो देवदूतं त्वां सपर्यति परिचरति तस्य यजमानस्य प्राविता भव स्म । अवश्यं रक्षको भव ॥ हूयत इति हविः । अर्चिशुचीत्यादिना (उ २-१०९) इसिः । प्रत्ययस्वरेणेकार उदात्तः । हविषः पतिर्हविष्पतिः । नित्यं समासे नुत्तरपदस्थस्य (पा ८-३-४५) इति षत्वम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । सपरशब्दात्कंड्वादिभ्यो यक् (पा ३-१-२७) इति यक् । धातुप्रकरणाद्गुणप्रतिषेधाद्यर्थाद्यकः कित्त्वाच्च सपरशब्दस्य धातुत्वात्ततो विहितस्य यक आर्धधातुकत्वे सत्यतो लोप इति लोपः । सनाद्यंता धातव इति धातु संज्ञायां तिप् । कर्तरि शप् । तस्मिन्पूर्वस्यातो गुण इति परपूर्वत्वम् । यकः प्रत्ययस्वरेणोदात्तत्वम् । शपा सहैकादेशस्यैकादेश उदात्तेनोदात्त इत्युदात्तत्वम् । तिङ्ङतिङ इति निघातो न भवति यद्वृत्तान्नित्यमिति प्रतिषेधात् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३