मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ९

संहिता

यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।
तस्मै॑ पावक मृळय ॥

पदपाठः

यः । अ॒ग्निम् । दे॒वऽवी॑तये । ह॒विष्मा॑न् । आ॒ऽविवा॑सति ।
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

गार्हपत्याहवनीययोः परस्पर संसर्गे विहितस्य हविषो याज्या यो अग्निं देववीतय इत्येषा । अथाग्नेय्य इष्टय इति खंडे सूत्रितम् । यो अग्निं देव वीतये कुवित्सु नो गविष्टये ॥ आ ३-१३ । इति ॥

हविष्मान् हविर्युक्तो यो यजमानो देववीतये देवानां हविर्भक्षणहेतुयागार्थमग्नि माविवासति अग्नेः समीपे विशेषेणागत्य परिचर्यां करोति हे पावकाग्ने तस्मै मृळय । तं यजमानं सुखय ॥ देववीतये । वी गतिप्रजनकांत्यशनखादनेष्वित्यस्मादशनार्थात् क्तिन् । देवानां वीतिर्यस्मिन्यागे स देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मान् । नब्विषयानिसंतस्येति । पर्युदासाद्धविः शब्दोंऽतोदात्तः मतुपः सर्वानुदात्तत्वात्स एव शिष्यते । आविवासति । वा गति गंधनयोः । अस्मादंतर्भावितण्यर्थादागमयितुमिच्छतीत्यर्थे सन् । आह्वानेच्छा परिचर्यायां पर्यवस्यतीति विवासतिशब्दः परिचर्यार्थे निघंटौ पठितः । द्विर्भावः अभ्यासस्य ह्रस्वः । सन्यतः (पा ७-४-७९) इतीत्वम् । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । तिङ्ङतिङ इति निघातो न भवति । यद्वृत्तान्नित्यमिति प्रतिषेधात् । तिङि चोदात्तवति (पा ८-१-७१) इत्याङो निघातः । सह सुपा (पा २-१-४) इत्यत्र सहेति योगविभागादाङस्तिङा सह समासे समासांतोदात्तत्वे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तस्मै । क्रियाग्रहणं कर्तव्यम् । पा १-४-३२-१ । इति संप्रदाने चतुर्थी ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३