मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् १०

संहिता

स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।
उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥

पदपाठः

सः । नः॒ । पा॒व॒क॒ । दी॒दि॒ऽवः॒ । अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ।
उप॑ । य॒ज्ञम् । ह॒विः । च॒ । नः॒ ॥

सायणभाष्यम्

पवमानेष्टावग्नेः पावकस्यान्युवाक्या स नः पावक दीदिव इति । पौर्णमासेनेष्टि पशुसोमा उपदिष्टा खंडे सूत्रितम् । स नः पावक दीदिवोऽग्ने पावक रो चिषा (आ २-१) इति ॥

हे दीदिवो दीप्यमान पावक शोधकाग्रे सत्वं नोऽस्मदर्थमिह देवयजनदेशे देवाना वह । ततो नो स्मदीयं यज्ञं तत्रत्यं हविश्चोप देवसमीपे प्रापयेति शेषः ॥ दीदिवः । दिवु क्रीडादौ । छंदसि लुङ् लङ् लिट इति वर्तमाने लट् । क्वसुः । द्विर्भावो हलादिशेषः । तुजादीनां दीर्घोभ्यासस्येत्यभ्यासस्य दीर्घत्वम् । वस्वेकाजाद्घामिति नियमाद्वसोरिट् प्रतिषेधः । लोपो व्योर्वलीति वकारलोपः । संबुद्धावुगिदचामित्यादिना नुम् । हल्ङ्यादिलोपः संयोगांतलोपः । मतुवसोरिति रुत्वम् । विसर्गः । अग्ने । पादादित्वान्ननिघातः । देवा इहेत्यत्र दीर्घादट समानपाद इति रुत्वम् । आतोऽट नित्यमित्या कारस्यानुनासिकः । भो भगोअघोअपूर्वस्य योऽशीति रोर्यकारः । लोपः शाकल्यस्येति यकारलोपः तस्यासिद्धत्वादाद्गुणो न भवति । इह । इदमो हः (पा ५-३-११) इति सप्तम्यांताद्ध प्रत्ययः । इदम इश् (पा ५-३-३) तद्धितांतत्वात्प्रातिपदिकत्वे सुपो धातुप्रातिपदिकयोः (पा २-४-७१) इति सप्तम्या लुक् । तद्धितश्चासर्वविभक्तिः (पा १-१-३८) इत्यव्ययसंज्ञायामव्ययादाप्सुपः (पा २-४-८२) इत्युत्तरस्याः सप्तम्या लुक् । चकारः प्रत्ययस्वरेणोदात्तः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३