मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२, ऋक् ११

संहिता

स न॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।
र॒यिं वी॒रव॑ती॒मिष॑म् ॥

पदपाठः

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । गा॒य॒त्रेण॑ । नवी॑यसा ।
र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ॥

सायणभाष्यम्

हे अग्ने नवीयसा नवतरेण पूर्वकैरप्यसंपादितेन गायत्रेण गायत्री च्छंदस्केनानेन सूक्तेन स्तवानः स्तूयमानः स त्वं नोऽस्मदर्थं रयिं धनं वीर वतीं शूरपुत्रप्रभृत्यपत्ययुक्तामिषमन्नं चा भर । संपादय ॥ स्तवानः । ष्टुञ् स्तुतौ । धात्वादेः षः सः । स्वरितञित इत्यात्मनेपदम् । लटः शानच् । कर्तरि शप् ।

बहुलं छंदसीति लुगभावः । गुणावादेशौ । आने मुक् (पा ७-२-८२) इति मुग्न भवत्य नित्यमागमशासनमित्यागमानुशासनस्यानित्यत्वात् । शपः पित्त्वादनुदात्तत्वम् । शानचश्चित्त्वादंतोदात्तस्यादुपदेशाच्छपः परत्वाल्लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । भर । हृग्रहोर्भश्छंदसि । पा ८-२-३२-१ । इति भत्वम् । गायत्रेण । गायत्र्याः संबंधि गायत्रम् । तस्येदम् (पा ४-३-१२०) इत्यण्प्रत्ययः । प्रत्ययस्वरः । नवीयसा । नवशब्दादातिशायनिक ईयसुन्प्रत्ययः । नित्त्वादाद्युदात्तः । वीरवतीम् । मतुब्ङीपोः पित्वादनुदात्तत्वम् । अकारः प्रातिपदिकस्वरेणोदात्तः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३