मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् १

संहिता

सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
होतः॑ पावक॒ यक्षि॑ च ॥

पदपाठः

सुऽस॑मिद्धः । नः॒ । आ । व॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म॑ते ।
होत॒रिति॑ । पा॒व॒क॒ । यक्षि॑ । च॒ ॥

सायणभाष्यम्

हे अग्ने सुसमिद्धनामकस्त्वं नोऽस्मदीयाय हविष्मते यजमानाय तदनुग्रहार्थं देवाना वह । हे पावक शोधक होतर्होमनिष्पादकाग्ने यक्षि च । यज च ॥ सुसमिद्धः । समः क्रियाविशेषेणत्वेन गतिसंज्ञकत्वात्प्रादिसमासः । शोभनवाचिनः सुशब्दस्य तु विशेषणं विशेष्येण बहुलम् (पा २-१-५७) इति समिद्ध पदेन कर्मधारयसमासः । सुशब्दः प्रातिपदिकस्वरेणोदात्तः । कर्मधारयेऽनिष्ठा (पा ६-२-४६) इति पूर्वपदप्रकृतिस्वरत्वम् । क्रियाविशेषणत्वे हि सुशब्दस्य गतित्वात्प्रादिसमासे गतिरनंतर इति समो यदुदात्तत्वं तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन स्थास्यतीति सुशब्दोनुदात्तः स्यात् । देवा अग्ने । पूर्ववद्रुत्वानुनासिके । हविष्मते । हविरस्यास्तीति मतुप् । तसौ मत्वर्थे (पा १-४-१९) इति भत्वेन पदत्वस्य बाधितत्वान्न रुत्वम् । होतःपावकशब्द योरामंत्रितयोः पृथक्प्रृृथगेव क्रियान्वये परस्परमसामर्थ्यात्परांगवद्भावाभावान्न तन्नि बंधनमैकस्वर्यम् । न च द्वितीयस्यामंत्रितस्या ष्टमिकनिघातेनैकस्वर्यम् । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेन पदात्परत्वाभावात्पादादित्वाच्च परस्परसामानाधिकरण्येऽपि होतरित्यस्य विशेषणत्वे समानमेवाविद्यमानवत्त्वम् । अत एवाविद्यमानवत्त्वात्सामर्थ्येऽपि न परांग वद्भाव इति नैकस्वर्यसिद्धिः । अतो होतरिति विशेष्यम् । अतः पुनातीति पावक इत्यवयवप्रसिद्धिस्वीकारेण विशेषणत्वाद्दोतरिति विशेष्यम् । तच्च सामान्य वचनमिति नामंत्रिते समानाधिकरण इत्यविद्यमानवत्त्वप्रतिषेधात्पदात्परत्वादपादादित्वाच्च द्वितीयामंत्रितस्याष्टमिकनिघातेन वा परांगवद्भावे सति शेषनिघातेन वा सर्वानुदात्तत्व सिद्धिः । यक्षि । यजेर्लोटः । सिपि बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वम् । षढोः कः सि (पा ८-२-४१) इति कत्वम् । सेर्हिरादेशश्छांदसत्वान्न भवति । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वर एव शिष्यते । न च तिङ्ङतिङ इति निघातः । पूर्वस्य पावकेत्यामंत्रितस्याविद्यमानवत्त्वात् । ननु नामंत्रिते समानाधिकरण इति तस्य निषिद्धमविद्यमानवत्त्वम् । न च । पावकपदस्याविद्यमानवत्त्वेन समानाधिकरणपरत्त्वाभावः । यक्षिपदस्यैव हि कार्यं प्रति पावकपदं पूर्वत्वादविद्यमानवत्स्यात् । होतःपदकार्यमविद्यमानवत्त्वप्रतिषेधं प्रति तु परत्वाद्विद्यमानवदेवेति भवत्येव होतरित्यस्याविद्यमानवत्त्वप्रतिषेधः । अतस्तस्य विद्यमानवत्त्वात्तदपेक्षया यक्षीत्यस्य निघातः प्राप्नोत्येव । सत्यम् । अत्र यक्षीत्यस्य चशब्दपरत्वाच्चादिषु च । ८-१-५८ । इति निघातप्रति षेधो भविष्यतीत्यदोषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४