मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ३

संहिता

नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
मधु॑जिह्वं हवि॒ष्कृत॑म् ॥

पदपाठः

नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
मधु॑ऽजिह्वम् । ह॒विः॒ऽकृत॑म् ॥

सायणभाष्यम्

इह देवयजनदेशेऽस्मिन्प्रवर्तमाने यज्ञे नराशंसमेतन्नामकमग्निमुपह्वये । आह्वयामि । कीदृशम् । प्रियं देवानां प्रीतिहेतुं मधुजिह्वं मधुर भाषिजिह्वोपेतं माधुर्यरसास्वादकजिह्वोपेतं वा हविष्कृतं हविषो निष्पादकं ॥ नरशब्दो नृ नय इत्यस्मादबंतः । प्रत्ययस्य पित्त्वाद्धातुस्वर एव शिष्यते । शंसंत्यस्मिन्निति शंसः । हलश्च (पा ३-३-१२१) इत्यधिकरणे घञ् । नराणां शंस इति समासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्त उभे वनस्पत्यादिषु युगपत् (पा ६-२-१४०) इति पूर्वेत्तरपदे प्रकृतिस्वरे भवतः । अत एव वनस्पत्यादिषु पाठान्नरशब्दस्य दीर्घत्वम् । इह । इदमो ह इति हप्रत्ययः । इदम इशितीशादेशः । प्रत्ययस्वरः । प्रियम् । प्रीणातीति प्रियः । इगुपधज्ञाप्रीकिरः क इति कः । प्रत्ययस्वरः । अस्मिन् । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ह्वये । निघातः । मधुजिह्वम् । मधुशब्दस्याद्युदात्तत्वमुक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । हविष्कृतम् । हविः करोतीति हविष्कृत् । क्विपि ह्रस्वस्य तुक् । नित्यं समासेऽनुत्तरपदस्थस्येति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४