मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ५

संहिता

स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः ।
यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥

पदपाठः

स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒तऽपृ॑ष्ठम् । म॒नी॒षि॒णः॒ ।
यत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् ॥

सायणभाष्यम्

हे मनीषिणो बुद्धिमंत ऋत्विजो बर्हिर्दभं स्तृणीत । वेदेरुपर्याच्छादयत । अत्रापि बर्हिर्नामकोऽग्निः सूच्यते । कीदृशं बर्हिरास्तरणीयम् । आनुषक् अनुक्रमेण सक्तं परस्परं संबद्धं घृतपृष्ठम् । घृतपूर्णानां स्रुचां बर्हिष्यासादितत्वाद्घृतं पृष्ठ उपरिभागे यस्य बर्हिषस्तद्घृतपृष्ठम् । यत्र यस्मिन्बर्हिष्यमृतस्यामृतसमानस्य घृतस्य चक्षणं दर्शनं भवति । यद्वा । मरणरहितस्य देवस्य बर्हिर्नामकस्याग्नेर्दर्शनं भवति । तद्बर्हिः स्तृणीतेति पूर्वत्रान्वयः ॥ स्तृणीत स्तृञ् आच्छादने । लोण्ममध्यमपुरुषस्य बहुवचनम् । लोटो लङ्वत् (पा ३-४-८५) तस्थस्थमिपा (पा ३-४-१०१) इति थस्य तादेशः । क्रादिभ्यः श्ना । ई हल्यघोः (पा ६-४-११३) इतीत्वम् । ऋवर्णाच्चेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । प्वादीनां ह्रस्वः (पा ७-३-८०) इति धातोर्ह्रस्वत्वम् । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । अतस्तिङ एव प्रत्यय स्वरेणोदात्तत्वं बर्हिः । बृंहेर्नलोपश्च (उ २-११०) इतीस्प्रत्ययनलोपौ । प्रत्ययस्वरः । आनुषक् । आ समंतादनुषजतीत्यानुषक् । षंजसंगे । धात्वादेः षः सः । क्विप्चेति क्विप् । अनिदिताम् (पा ६-४-२४) इति लोपः । आङन्वोरुपसर्गयोः प्राक्प्रयोगः । गतिसमासः । उपसर्गात्सुनोतीत्यादिना षत्वम् । घृतपृष्ठम् । घृ क्षरणदीप्त्योः । निष्ठेति क्तः । प्रत्ययस्वरेणोदात्तः । घृतयुक्तं पृष्ठमस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनीषिणः । आमंत्रितनिघातः आमृतस्य । न विद्यते मृतं मरणमस्मिन्नित्यमृतम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्ते नञो जरमरमित्रमृताः (पा ६-२-११६) इत्युत्तरपदाद्युदात्तत्वम् । चक्षणम् । चक्षिङ् व्यक्तायां वाचि । वागभिव्यक्तिवाची धातुरिहाभिव्यक्तिमात्रं लक्षयति । ल्युट् च (पा ३-३-११५) इति भावेल्युट् । योरनादेशः । तस्यार्धधातु कत्वाच्चक्षिङः ख्याञ् (पा २-४-५४) इति ख्याञादेशे प्राप्तेऽसनयोश्च । पा २-४-५४-१० । इति प्रतिषेधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४