मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ६

संहिता

वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ।
अ॒द्या नू॒नं च॒ यष्ट॑वे ॥

पदपाठः

वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ।
अ॒द्य । नू॒नम् । च॒ । यष्ट॑वे ॥

सायणभाष्यम्

द्वारो यज्ञशालाद्वाराणि वि श्रयंताम् । कपाटोद्घाटनेन विव्रियंताम् । कीदृश्यः । ऋतावृध ऋतस्य सत्यस्य यज्ञस्य वा वर्धयित्र्यो देवीर्द्योतमाना आसश्चतोऽसश्चंत्य उद्घाटनेन प्रवेष्टृपुरुषसंगरहिताः । यद्वा । आसश्चतः प्रवेष्टृपुरुषरहितान्यज्ञगृहांस्तत्पुरुषप्रवेशाय द्वाराभिमानिन्य एतत्संज्ञिका अग्नि विशेषमूर्तयो वि श्रयंताम् । विशेषेण सेवंताम् । द्वारसेवया तत्र पुरुषप्रवेशेन वा किं प्रयोजनमिति तदुच्यते । अद्यास्मिन्दिने नूनमवश्यं यष्टवे यष्टुम् । चकाराद्दिनांतरेष्टपीति द्रष्टव्यं ॥ ऋतावृधः ऋतं वर्धयंतीत्यर्थे वृधेरंतर्भावितण्यर्थात्क्विप्चेति क्विप् । उपपदसमासः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । वृधिर्धातुस्वरेणोदात्तः । समासेकृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । देवीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । देवशब्दात्पचाद्यजंतात्पुंयोगादाख्यायाम् (पा ४-१-४८) इति ङीष् । प्रत्ययस्वरेणोदात्तः । विभक्त्या सहैकादेश उदात्तेनोदात्त इत्युदात्तः । असश्चतः । ग्लुन्चु षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । द्वाराभावे न विद्यंते सश्चंतो गच्छंतो येषु प्राग्वंशादिषु तानसश्चतः । अद्य । सद्यःपरुदित्यादिना द्यप्रत्ययांतो निपातितः । तद्धितश्चासर्वविभक्तिरित्यव्ययसंज्ञकत्वात्परस्या विभक्तेर्लुक् । प्रत्ययस्वरेणांतोदात्तः । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । नूनम् । एवमादीनामंत इत्यंतो दात्तत्वम् । यष्ववे । यजेस्तुमर्थे सेसेनित्यादिना (पा ३-४-९) तवेन्प्रत्ययः । व्रश्चादिना षत्वम् । नित्त्वादाद्युदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४