मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ७

संहिता

नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥

पदपाठः

नक्तो॒षसा॑ । सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥

सायणभाष्यम्

नक्तशब्द उषःशब्दश्च लोके कालविशेषवाचिनौ । इह तु तत्कालाभिमानि वह्नि मूर्तिद्वये प्रयुज्येते । नक्तोषासा नक्तोषो नामिके वह्निमूर्ति अस्मिन्प्र वर्तमाने यज्ञकर्मण्युप ह्वये । आह्वयामि । किमर्थम् । नोऽस्मदीयमिदं वेद्यामास्तीर्णं बर्हिर्गर्भमासदे । असत्तुम् । प्राप्तुम् । कीदृशौ । सुपेशसा शोभन रूपयुक्ते ॥ नक्तं चोषाश्च नक्तोषसा । द्वितीयाद्विवचनस्य सुपां सुलुगित्याकारः मलोप उपधादीर्घश्छांदसौ । देवताद्वंद्वे च (पा ६-२-१४१) इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । सुपेशसा । शोभनं पेशो रूपं ययोस्ते । पूर्ववदाकारः । पेशःशब्दो नब्विषयत्वादाद्युदात्तः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वस्यापवादत्वेनाद्युदात्तं द्व्यच्छंदसि (पा ६-२-११९) इत्युत्तरपडाद्युदात्तत्वम् । अस्मिन् । ऊडिदमित्यदिना विभक्तिरुदात्ता । असदे । षद्लृ विशरण गत्यवसादनेषु । धात्वादेः षः सः । आङ्पूर्वादस्मात्पंपदादिभ्यो भावे क्विप् । पा ३-३-१०८ ९ । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५