मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ९

संहिता

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥

पदपाठः

इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।
ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥

सायणभाष्यम्

अत्र महीशब्दो महत्वगुणयुक्तां भारतीमाचष्टेऽन्येष्टाप्रीसूक्तेषु सदृशेष्विळा सरस्वती भारतीत्याम्नातत्वान् । इळादिशब्दाभिधेया वह्नि मूर्तयस्तिस्रो देवीर्दीप्यमाना बर्हिर्वेद्यामास्तीर्णं सीदंतु । प्राप्नुवंतु । कीदृश्यः । मयोभुवः सुखोत्पादिका अस्रिधः शोषेण क्षयेण वा रहिताः ॥ इळा । ईड स्तुतौ । छांद सं ह्रस्वत्वम् । क्विप् । धातुस्वरः । टापं चापि हलंतानां यथा वाचा दिशा निशेति टाप् । सरस्वती । सरोऽसुनंतो नित्त्वादाद्युदात्तः । तदस्यास्तीति मतुप् । अदुपधत्वाद्वत्वम् । तसौ मत्वर्थ इति भत्वेन पदत्वस्य बाधितत्वाद्रुत्वाद्यभावः । उगितश्चेति ङीप् । मतुब्ङीपौ पित्वादनुदात्तौ । मही । महतीशब्दे तकारलोपश्चांदसः । यस्येति चेत्यकारलोपः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तिस्रः । त्रिशब्दाज्जसि त्रिचतुरोः स्त्रियां त्रिसृचतस्य (पा ७-२-९९) इति तिस्रादेशः । अचि र ऋतः (पा ७-२-१००) इति रेघादेशः । तिसृभ्यो जसः (पा ६-१-१६६) इति जस उदात्तत्वम् । देवीः देवानां पत्न्यो देव्यः पुंयोगादाख्यायामिति ङीष् । यस्येति जेत्यकार लोपः । प्रत्ययस्वरेण ङीषु उदात्तत्वम् । जसिदीर्घाज्जसि च (पा ६-१-१०५) इति निषिद्धं दीर्घत्वम् । वा छंदसीति पक्षेऽभ्यनुज्ञायते । मयोभुवः । मीञ् हिंसायाम् । हिनस्ति दुःखमिति सुखं मयः । तद्बावयंतीति मयोभुवः । अंतर्भावितण्यर्थाद्भुवः क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । बर्हिः । बृंहेर्नलोपश्चेतिसिप्रत्ययः । प्रत्ययस्वरः । सीदंतु । षद्लृ विशरणादौ । पाघ्रेत्यादिना सीदादेशः । अस्रिधः । स्रिधेर्हिंसार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि नञा बहुव्रीहिः । पूर्वपदप्रकृतिस्वरं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५