मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् १०

संहिता

इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥

पदपाठः

इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वऽरू॑पम् । उप॑ । ह्व॒ये॒ ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥

सायणभाष्यम्

पत्नीसंयाजे त्वष्टुः पुरोनुवाक्येह त्वष्टारमग्रियमिति । शं युवाकाय संप्रेषित इति खंडे सूत्रितम् । सं ते पयांसि समु यंतु वाजा इह त्वष्टारमग्रि यम् । आ १-१० ॥ इति ॥

त्वष्टारं त्वष्टृनामकमग्निमिह कर्मण्युपह्वये । कीदृशम् । अग्रियं श्रेष्ठं विश्वरूपं बहुविधरूपोपेतम् । सोऽस्माकं केवलोऽसाधरणोऽस्तु । इतरयजमानेभ्योप्यधिकमनुग्रहं करोत्वित्यर्थः ॥ त्वष्वारम् । तक्षू त्वक्षू तनूकरणे । तृन् । स्वरतिसूतिसूयतिधूञूदितो वा (पा ७-२-४४) इतीडभावपक्षे स्कोः संयोगाद्यो रंते च (पा ८-२-२९) इति ककारलोपः । ष्टुत्वम् । द्वितीयै कवचने ऋतो ङिसर्वनामस्थानयोरिति गुणेऽप्तृन्नित्यादिनोपधाया दीर्घः तृनो नित्त्वादाद्युदात्त त्वम् । अग्रियं अग्रादित्यनुवृत्तौ घच्छौ च (पा ४-४-११७) इति घच् । आयनेयीत्यादिना (पा ७-१-२) घकारस्य इयादेशः । यस्येति लोपः । आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् । पा ७-१-२-१ । इत्युपदेशिवद्भावात्प्रत्ययाद्युदात्तत्त्वाद्घवश्चित्वादंतोदात्तत्वम् । विश्वरूपम् । विश्वानि रूपाणि त्वष्ट्रुत्पन्नत्वेन यस्य । त्वष्वा वै पशूनां मिथुनानां रूपकृत् । तै सं ६-१-८-५ । इति श्रुतेः । विश्वशब्दस्याद्युत्तात्त त्वात्पूर्वपद प्रकृतिस्वरत्वे प्राप्ते बहुव्रीहौ विश्वं संज्ञायाम् (पा ६-२-१०६) इति पूर्वपदांतोदात्तत्वम् । अस्माकम् । असु क्षेपणे । युष्यसिभ्यां मदिक् (उ १-१३८) प्रत्ययस्वरेणांतोदात्तः । षष्ठीबहुवचनमाम् । अत्र परमपि योऽचि (पा ७-२-८९) इति यत्वं बाधित्वा नित्यत्वात्प्रतिपदविधित्वाच्चाम आकमादेशे कृते (पा ७-१-३३) अनादेश इति निषेधेन (पा ७-२-८६) यत्वाभावाच्छेषे लोप इति दकारलोपेऽकारांतत्वेन पश्चात्प्राप्तस्यापि सुटः (पा ७-१-५२) साम इति निर्देशे स्थानिन्यंतर्भावेन निवृत्तिः एवमर्थ एव हि साम इति ससुट्क निर्देशः । केवलः । वृषादेरा कृतिगणत्वादाद्युदात्तः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५