मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् ११

संहिता

अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥

पदपाठः

अव॑ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒विः ।
प्र । दा॒तुः । अ॒स्तु॒ । चेत॑नम् ॥

सायणभाष्यम्

हे वनस्पते एतन्नामाकाग्ने देव हविर्भुग्ब्यो देवेभ्योऽस्मदीयं हविरव सृज । समर्पयेत्यर्थः प्रदातुर्यजमानस्य चेतनं परलोकविषयं विज्ञानं त्वत्प्रसादादस्तु ॥ वनस्पते । आमंत्रितनिघातः । देव । पादादित्वान्न निघातः । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । हविः । इसः प्रत्ययस्वरः । दातुः । ददातेस्तृच् । चित इत्यंतोदात्तः । ङसि ऋत् उत् । पा ६-१-१११ इत्युत्वम् । एकादेशो रपरत्वं च रात्सस्य (पा ८-२-२४) इति सलोपः । एकादेशस्वरेणोकार उदात्तः । चेतनम् । चिती संज्ञाने । करणे ल्युट् । योरनादेशः । लघूपधगुणः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५