मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३, ऋक् १२

संहिता

स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे ।
तत्र॑ दे॒वाँ उप॑ ह्वये ॥

पदपाठः

स्वाहा॑ । य॒ज्ञम् । कृ॒णो॒त॒न॒ । इन्द्रा॑य । यज्व॑नः । गृ॒हे ।
तत्र॑ । दे॒वान् । उप॑ । ह्व॒ये॒ ॥

सायणभाष्यम्

स्वाहाशब्दो हविष्प्रदानवाची सन् एतन्नामकमग्निविशेषं लक्षयति । तदग्निसंपादितं यज्ञमिंद्रायेंद्रतुष्व्यर्थं यज्वनो यजमानस्य गृहे ऋत्विजः कृणोतन । कुरुत । तत्र यज्ञे देवानुप ह्वये ॥ कृणोतन । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लोण्मध्यमबहुवचनस्य तस्थस्थमिपामिति तादेशः । तप्तनप्तनथनाश्च (पा ७-१-४५) इति तनबादेशः । शपि प्राप्ते धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोप इति लोपः । तस्याचः परस्मिन्निति स्थानिवद्भावादृकारस्य लघूपधगुणो न भवति । तनपः पित्त्वेनङित्त्वादुकारस्य गुणः । इंद्राय । ऋज्रेंद्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । यज्वनः । यङदेवपूजासंगतिकरणादानेषु । सुयोजोर्ङ्वनिप् (पा ३-२-१०३) ङसि भसंज्ञायामल्लोपे प्राप्ते न संयोगाद्वमंतात् (पा ६-४-१३७) इति निषेधः । वनिपः पित्त्वेन धातुस्वर एव शिष्यते । गृहे । ग्रह उपादाने । गेहे कः (पा ३-१-१४४) इति कप्रत्ययः । ग्रहिज्येत्यादिना (पा ६-१-१६) संप्रसारणम् । परपूर्वत्वम् । प्रत्ययस्वरः । तत्र । त्रल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । देवा उपेत्यत्र संहितायां दीर्घादटीति नकारस्य रुत्वम् । अतोऽट नित्यमित्याकारस्यानुनासिकादेशः । भोभगो इति यत्वम् । तस्य लोपः शाकल्यस्येति लोपः ॥ २५ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५