मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् १

संहिता

ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒ः सोम॑पीतये ।
दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥

पदपाठः

आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः॑ । गिरः॑ । विश्वे॑भिः । सोम॑ऽपीतये ।
दे॒वेभिः॑ । या॒हि॒ । यक्षि॑ । च॒ ॥

सायणभाष्यम्

हे अग्ने एभिरस्मिन्यज्ञे संभावितैर्विश्वेभिर्देवेभिः सर्वैर्देवैः सह सोम पीतये सोमपानोपेतयागार्थं दुवोऽस्मदीयां परिचर्यां गिरोऽस्मदीयाः स्तुतीश्च प्रत्या याहि । आगच्छ । यक्षि च आगत्य यज च ॥ एभिः । पूर्वनिर्दिष्टानां देवानामिदमा परामर्शादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यशनुदात्तः । शित्त्वात्सर्वादेशः । नेदमदसोरकोः (पा ७-१-११) इति भिस ऐसादेशाभावः । विभक्तिरनुदात्तैव । न चोडिदमित्यादिना विभक्तेरुदात्तत्वं तत्रांतोदात्तादित्यधिकारात् । दुवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वम् । विश्वेभिः । विश्वशब्दो विशेः क्वनंतो नित्त्वादाद्युदात्तः । बहुलं छंदसीति भिस ऐस् न भवति । बहुवचने झल्येत् (पा ७-३-१०३) इत्येत्वम् । सोमपीतये । सोमशब्दोऽर्तिस्तुस्वित्यादिना मनंतो नित्त्वादाद्युदात्तः । सोमस्य पीतिर्यस्मिन्यागे स सोमपीतिः । तस्मै । तादर्थ्ये चतुर्थी । देवेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । यक्षि । यजेर्लोटः सिप् । बहुलं छंदसीति शपो लुक् । व्रश्चादिना षत्वम् । षढोः कः सीति कत्वम् । सेर्हिरादेशश्छांदसत्वान्न भवति । सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वर एव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६