मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् २

संहिता

आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ ।
दे॒वेभि॑रग्न॒ आ ग॑हि ॥

पदपाठः

आ । त्वा॒ । कण्वाः॑ । अ॒हू॒ष॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धियः॑ ।
दे॒वेभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे विप्र मेधाविन्नग्ने कण्वा मेधाविन ऋत्विजस्त्वा यज्ञनिष्पादकं त्वामाहूषत । आह्वयंति । तथा ते धियस्त्वदीयानि कर्माणि गृणंति । कथयंति । ततो हे अग्ने देवेभिर्देवैः सहा गहि । आगच्छ । विप्र इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कण्व ऋभुरिति पठितं ॥ त्वा । त्वामौ द्वितीयाया इति त्वादेशः । सर्वानुदात्तः । कण्वाः । कण शब्दार्थः । अशिप्रुषिलटकणिखटीत्यादिना क्वन् । नित्त्वादाद्यु दात्तः । अहूषत । ह्वेञ् स्पर्धायां शब्दे च । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ् । ञत्त्वादात्मनेपदम् । झ आत्मनेपदेष्वनत इत्यदादेशः । च्लेः सिच् । एकाच इतीट् प्रतिषेधः (पा ७-२-१०) बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । हलः (पा ६-४-२) इति दीर्घत्वम् । आदेशप्रत्यययोरिति षत्वम् । छांदसत्वादूकार स्य न गुणः । अडागमः । गृणंति । गृ शब्दे । लट् । झि । झोंऽतः । क्रादिभ्यः श्ना । प्वादीनां ह्रस्व इति धातोर्ह्रस्वत्वम् । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । ऋवर्णाच्छेति वक्तव्यम् । का ८-४-१-१ । इति णत्वम् । तिङः स्वर एव शिष्यते । विप्र । आमंत्रितनिघातः । ते । अनुदात्तमित्यनुवृत्तौ तेमयावेकवचनस्य (पा ८-१-२२) इति षष्ठ्यास्ते इत्यादेशः । देवेभिः । छांदस ऐसभावः । गहि । गम्लृ सृप्लृगतौ । लोटः सिप् । सेर्ह्यपिच्च । कर्तरि शप् । तस्य बहुलं छंदसीति लुक् । अनुदात्तोपदेशेत्यादिना मकारलोपः । तस्यासिद्धवदत्रा भादित्य सिद्धत्वादतो हेरिति हेर्लुग्न भवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६