मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् ४

संहिता

प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ ।
द्र॒प्सा मध्व॑श्चमू॒षदः॑ ॥

पदपाठः

प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द॑वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ ।
द्र॒प्साः । मध्वः॑ । च॒मू॒ऽसदः॑ ॥

सायणभाष्यम्

हे इंद्रादिदेवा वो युष्मदर्थमिंदवः सोमाः प्रभ्रियंते । प्रकर्षेण संपाद्यंते । कीदृशाः । मत्सरास्तृप्तिकराः । मत्सरः सोमो मदंते स्तृप्तिकर्मणः (नि २-५) इति यास्कः । मादयिष्णवो हर्षहेतवो द्रप्सा बिंदुरूपा मध्वो मधुराः चमूषदश्चमू८षु चमसादिपात्रेष्ववस्थिताः ॥ प्र । व्यवहिताश्च (पा १-४-८२) इति व्यवहितप्रयोगः । भ्रियंते । भृञो यकि रिङ् शयग्लिङ् क्षु (पा ७-४-२८) इति रिङादेशः । हृञो वा । हृग्रहोर्भश्छंदसीति हकारस्य भकारः । इंदवः । उंदी क्लेदने । उंदंति पात्राणीति । निदित्यनुवृत्तावुंदेरिच्चादेः (उ १-१३) इत्युप्रत्यय आदेरिकारश्च । नित्वादाद्युदात्तः । मत्सराः । मद तृप्तियोगे । चिदित्यनुवृत्तौ कृधूमदिभ्यः कित् (उ ३-७३) इति सरप्रत्ययः तितुत्रतथसिसुसरकसेसु चेतीट् प्रतिषेधः । चित्त्वादंतोदात्तः । मादयिष्णवः । मदीहर्षग्ल पनयोः । मदेर्ण्यंताणेश्छंदसि (पा ३-२-१३७) इतीष्णुच् । णेरनिटीनि णिलोपे प्राप्तेऽयामंताल्वाय्येत्न्विष्णुषु (पा ६-४-५५) इत्ययादेशः । चित्त्वादंतोदात्तः । मध्वः । मधु शब्द आद्युदात्त उक्तः । मधुशब्दस्य व्यत्ययेन पुल्पिंगत्वम् । संज्ञापूर्वको विधिरनि त्य इति जसि च (पा ७-३-१०९) इति गुणो न भवति । चमूषदः । चमु छमु जमु झसु अदने । चम्यते भक्ष्यते येषु चमसेषु ते चम्वः । कृषिचमीत्यादिना (उ १-८२) ऊः । तत्र सीदंतीति चमूषदः । सत्सूद्विषेत्यादिना (पा ३-२-६१) क्विप् । सुषामादेराकृतिगणत्वात् षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६