मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् ७

संहिता

तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।
मध्व॑ः सुजिह्व पायय ॥

पदपाठः

तान् । यज॑त्रान् । ऋ॒त॒ऽवृधः॑ । अग्ने॑ । पत्नी॑ऽवतः । कृ॒धि॒ ।
मध्वः॑ । सु॒ऽजि॒ह्व॒ । पा॒य॒य॒ ॥

सायणभाष्यम्

हे अग्ने तानिंद्रादीन्देवान्यजत्रान्यजनीयान् ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकान् पत्नीवतः पत्नीयुक्तान्कृधि । कुरु । हे सुजिह्व । शोभनजिह्वोपेत मध्वो मधुरस्य सोमस्य भागं देवान्पायय ॥ यजत्रान् । आमिनक्षियजिबंधिपतिभ्योऽत्रन् (उ ३-१०५) इति यजेरत्रन्प्रत्ययः । ऋतावृधः । वृधुवृद्धौ । अंतर्भावितण्यर्थात् क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । वृद्धेर्धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वान्नामंत्रितनिघातः । पाष्ठिकमाद्युदात्तत्वम् । पत्नीवतः । पत्युर्नो यज्ञसंयोगे (पा ४-१-३३) इति ङीप् । इकारस्य च नकारः ता एषां संतीति मतुप् । छंदसीर इति वत्वम् । पतिशब्दो दतिप्रत्ययांतत्वादाद्युदात्तः । ङीम्मतुपोरनुदात्तत्वात्स एव शिष्यते । कृधि । कृञो लोटः सिः । सेर्ह्यपिच्चेति हिः । बहुलं छंदसीति विकरणलुक् । श्रुशृणुपृकृवृभ्यश्छंदसि (पा ६-४-१०२) इति हेर्धिरादेशः । ङित्वाद्गुणाभावः । मध्वः । उक्तम् । सुजिह्व । आमंत्रित निघातः । पायय । पापाने । पिबंतं प्रयुंक्त इति हेतुमति चेति णिच् । शाछासाह्वाव्यावेपां युक् (पा ७-३-३७) इति युक् । पूर्वस्यामंत्रितस्याविद्यमानवत्त्वम् । अत एवाव्यवधायकत्वान्मध्व इत्यपेक्ष्य तिङ्ङतिङ इति निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७