मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् ९

संहिता

आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुधः॑ ।
विप्रो॒ होते॒ह व॑क्षति ॥

पदपाठः

आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ ।
विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥

सायणभाष्यम्

विप्रो मेधावी होता होमनिष्पादकोऽग्निरुषर्बुध उषःकाले यागमनाय प्रबुध्यमानान्विश्वान्देवान्सूर्यस्य संबंधिनो रोचनात्स्वर्गलोकादिह कर्मण्याकीं वक्षति । आवहतु ॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो राजसूयसूर्येत्यादिना (पा ३-१-११४) क्यप्रत्ययांतो निपातितः । क्यपः पित्त्वा द्धातुस्वरेणाद्युदात्तः । रोचनात् । रोचमानात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति कर्तरि युच् । चित इत्यंतोदात्तत्वम् । विश्वान् । विशेः क्वनंतो नित्त्वादाद्युदात्तः । उषर्बुधः । उषर्बुध्यंत इत्युषर्बुधः । क्विप्चेति क्विप् धातुस्वरेणोकार उदात्तः । समासे कृदुत्तपदप्रकृतिस्वरत्वम् । विप्रः । ऋज्रेंद्रेत्यादिनारन् । नित्त्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । इदमो ह इति ह प्रत्ययः । इदम इशितीश् । शित्त्वात्सर्वादेशः । प्रत्ययस्वरः । वक्षति । वहेः प्रार्थनायां लिङर्थे लेट् । तस्य तिप् । कर्तरि शप् । शपि परतः सिब्बहुलं लेटीति सिप् । ढत्वकत्वषत्वानि । तिङ्ङतिङ इति निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७