मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४, ऋक् १२

संहिता

यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हितः॑ ।
ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥

पदपाठः

यु॒क्ष्व । हि । अरु॑षीः । रथे॑ । ह॒रितः॑ । दे॒व॒ । रो॒हितः॑ ।
ताभिः॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥

सायणभाष्यम्

हे देवाग्ने रोहितो रोहिच्छब्दाभिधेयास्तद्वीया वडवा रथे युक्ष्व । योजय । हिशब्दः पादपूरणार्थः । कीदृशीः । अरुषीर्गतिमतीर्हरितो हर्तुं रथारूढान्पुरुषान्नेतुं समर्थाः । ताभिर्वडवाभिरिहास्मिन्कर्मणि देवाना वह ॥ युक्ष्व । युजिर् योगे । लोट् । स्वरितेत्वादात्मनेपदम् । थासः से । सवाभ्यां वामौ । रुधादिभ्यः श्नम् । तस्य बाहुलकाल्लुक् । कुत्वषत्वे । प्रत्ययसर्वेणांतोदात्तः । संहितायां द्व्यचोऽतस्तिङ इति दीर्घः । अरुषीः । ऋ गतौ । रंति गच्छंतीत्यरुष्यो वडवाः । ऋहनिभ्यामुषन् (उ ४-७३) धातोर्गुणो रपरत्वम् । नित्त्वादाद्युदात्तोऽरुषशब्दः । तस्मात्स्त्रियां छांदसो ङीप् । शसि प्रथमयोः पूर्वसर्वर्णः (पा ६-१-१०२) इति दीर्घः । रथे । रमेरौणादिकः क्थन्प्रत्ययः । नित्वादाद्युदात्तः । हरितः । हृसृरुहियुषिभ्यः इतिः (उ १-९९) इति हरतेरितिप्रत्ययः । इकारः प्रत्ययस्वरेणोदात्तः । रोहितः । रुहेरपि तेनैव सूत्रेणेतिः । इकारः प्रत्ययस्वरेणोदात्तः । ताभिः । सावेकाच इति विभक्तेः प्राप्तमुदात्तत्वं साववर्णेति निषिध्यते । देवानित्यत्र पूर्ववद्रुत्वानुनासिकौ ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७