मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् २

संहिता

मरु॑त॒ः पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन ।
यू॒यं हि ष्ठा सु॑दानवः ॥

पदपाठः

मरु॑तः । पिब॑त । ऋ॒तुना॑ । पो॒त्रात् । य॒ज्ञम् । पु॒नी॒त॒न॒ ।
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ ॥

सायणभाष्यम्

हे मरुतः ऋतुना सह पोत्रात्पोतृनामकस्य ऋत्विजः पात्रात्सोमं पिबत । ततोऽस्मदीयं यज्ञं पुनीतन । शोधयत । हे सुदानवः शोभनदातारो मरुतः । हि यस्माद्यूयं स्थ युष्माकं शोधयितृत्वं प्रसिद्धम् । तस्माच्छोदयतेत्यर्थः ॥ पिबत । अत्र तिङोऽदुपदेशाच्छपः परत्वाल्लसार्वधातुकानुदात्तत्वम् । धातुस्वरः । पूर्वामंत्रितस्याविद्यमानवत्त्वेन पदादपरत्वान्निघाताभावः । पूर्ववत्प्रकृतिभावः । पोत्रात् । पोतुः संबंधि पात्रं पोत्रम् । तस्येदमित्यण् । तद्धितेष्वचामादेः (पा ७-२-११७) इति प्राप्ता वृद्धिः सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । नन्वेवमंत्यस्य ऋकारस्याचोञ्णिति (पा ७-२-११५) इति वृद्धिः प्राप्नोति । त्वाष्ट्रोजागत इत्यत्र हि विप्रतिषेधे परं कार्यम् (पा १-४-२) इति परयादिवृद्ध्यांत्योपधलक्षणा वृद्धिर्बाध्यत इत्युक्तम् । इह तु परस्या आदिवृद्धेश्छांदसत्वेन निवृत्तत्वादंत्यवृद्धिः प्राप्नोत्येवेति । एवम् । तर्ह्यत्राप्यादिवृद्धिरौकारः क्रियताम् । तस्य तु छांदस ओकारो भविष्यति । पुनीतन । पूञ् पवने । लोट् । लोटो लङ्वत् (पा ३-४-८५) इति लङ्वद्भावात्तस्य तस्थस्थमिपामिति तादेशः । क्र्यादिभ्यः श्ना । ई हल्यघोरितीकारः । तप्तनप्तनथनाश्चेति तनादेशः । प्वादीनाम् । ह्रस्व इति ह्रस्वः । प्रत्ययद्वयस्यापि सार्वधातुकमपिदिति ङित्त्वात्स्वस्वपूर्वयोरिकोर्गुणाभावः । यूयम् । युष्मदः । परस्य जसो ङीप्रथमयोरम् (पा ७-१-२८) इत्यमादेशः । न विभक्तौ तुस्माः (पा १-३-४) इति मकारस्येत्संज्ञाप्रतिषेधः । यूयवयौ जसि (पा ७-२-९३) इति मपर्यंतस्य यूयादेसः । शेषे लोपः । अत्र यूयादेशात्प्रागेवांगत्पात्प्रातिपदिकस्यांतोदात्तत्वम् । शेषनिघातः । ततो यूयादेशः स्थाने तरतमः (पा १-१-५०) इति सर्वानुदात्तः । तत्र शेषे लोपोंऽत्यलोप इति पक्षेपूर्वसवर्णदीर्घत्वं बाधित्वा योऽयममि पूर्वः (पा ६-१-१०७) इति प्रातिपदिकांतेनोदात्तेन सहानुदात्तस्य सुप एकादेशः स एकादेश उदात्तेनोदात्त इत्यादात्तः । टलोपपक्षे तूदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । स्थ । अस भुवि । लटो मध्यमबहुवचनं थ । अदिप्रभृतिभ्यः शप इति शपो लुक् । श्नसोरल्लोप इत्यकारलोपः । व्यत्ययेन षत्वम् । हि चेति निषेधात्तिङ्ङतिङ इति निघातो न भवति । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । अत्र हे सुदानवो यूयं हि स्थेति विवक्षितम् । सुदानवः । दाभाभ्यां नुः (उ ३-३२) सोः प्रादिसमासः । आमंत्रितनिघातः । अत्र यूयमित्युद्दिश्य सुदानवः स्थेति न विधीयते येनानामंत्रितत्वान्निघातो न स्यात् । किंतु सुदानव इति सिद्धवद्दातृत्वेन संबोध्य तेषु तेषु मारुतसूक्तेषु मरुतां प्रसिद्धात्प्रभावाशिशयाद्यूयं स्थेति युष्मच्छब्देन प्रतिनिर्दॆश्य पुनीतनेति प्रार्थने पवने तेषां हेतुत्वं हिशब्देनोच्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८