मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ५

संहिता

ब्राह्म॑णादिन्द्र॒ राध॑स॒ः पिबा॒ सोम॑मृ॒तूँरनु॑ ।
तवेद्धि स॒ख्यमस्तृ॑तम् ॥

पदपाठः

ब्राह्म॑णात् । इ॒न्द्र॒ । राध॑सः । पिब॑ । सोम॑म् । ऋ॒तून् । अनु॑ ।
तव॑ । इत् । हि । स॒ख्यम् । अस्तृ॑तम् ॥

सायणभाष्यम्

हे इंद्र ब्राह्मणाद्ब्राह्मणाच्छंसिसंबद्धाद्राधसो धनभूतात्पात्रात्सोमं पिब । किं कृत्वा । ऋतूननु ऋतुदेवानुसृत्य । ऋतवोऽपि पिबंत्वित्यर्थः । हि य स्मात्तवेत्तव सख्यमस्तृतमृतूनामविच्छिन्नं तस्मादृतुभिः सह पानं युक्तं ॥ ब्राह्मणात् । ब्रह्मशब्देनात्र ब्रह्मवर्गे द्वितीयो ब्राह्मणाच्छंसी कथ्यते । स च पुल्लिंगे शेषनिघातेनानुदात्तादिः । तस्य संबंध्युत्तष्टश्चमसः । स च तस्यैवावयहन्नियत इत्यवयवविवक्षायामनुदात्तादेरञ् (पा ४-२-४४) तेन ञित्वादाद्युदात्तश्चमसपरोऽत्र ब्राह्मणशब्दः । राधसः । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तः । पिब । पादादित्त्वादाद्युदात्तत्वम् । द्व्यचोऽतस्तिङ इति दीर्घत्वम् । ऋतू रन्वित्यत्र दीर्घादटि समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा (पा ८-३-२) इत्यूकारस्यामनासिकत्वम् । तव । युष्मदस्मद्भ्यां ङसोऽश् (पा ७-१-२७) शित्त्वात्सर्वादेशः तवममौ ङसीति तवादेशः । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् । सख्यम् । सख्युः कर्म सख्यम् । सख्युर्यः । यस्येति लोपः । प्रत्ययस्वरः । अस्तृतम् । स्तृणातेर्हिंसार्थस्य क्तः । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८