मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ६

संहिता

यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् ।
ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥

पदपाठः

यु॒वम् । दक्ष॑म् । धृ॒त॒ऽव्र॒ता॒ । मित्रा॑वरुणा । दुः॒ऽदभ॑म् ।
ऋ॒तुना॑ । य॒ज्ञम् । आ॒शा॒थे॒ इति॑ ॥

सायणभाष्यम्

हे धृतव्रता स्वीकृतकर्माणौ मित्रावरुणा हे मित्रनामकवरुणनामकौ देवौ युवमुभौ युवामृतुना सहास्मदीयं यज्ञमाशाथे । व्याप्नुथः । कीदृशं यज्ञम् । दक्षं प्रवृद्धम् । दूळभं दुर्दहं शुत्रुभिर्दग्धुं विनाशयितुमशक्यमित्यर्थः ॥ युवम् । प्रथमाद्विवचनस्य ङीप्रथमयोरमित्यमादेशः । युवावौ द्विवचने (पा ७-२-९२) इति मपर्यंतस्य युवादेशः । शेषे लोप इति टलोपोंऽत्यलोपो वा । अमि पूर्वत्वम् । भाषायामेव ह्यात्वम् । टलोपपक्ष उदात्तनिवृत्तिस्वरेणाम उदात्तत्वम् । अंत्यलोपपक्ष एकादेश उदात्तः । दक्षम् । दक्ष वृद्धौ । दक्षंत्यनेनेति करणे घञ् । एवं हि पुल्लिंगत्वनियमः । अन्यस्यानियम इति नपुंसकत्वम् । धृतव्रता मित्रावरुणा । धृतानि व्रतानि याभ्यां तौ धृतव्रतौ । मित्रश्च वरुणश्च मित्रावरुणौ । उभयत्र सुपां सुलुगित्यादिना विभक्तेराकारः । मित्रशब्दस्य देवताद्वंद्वे चेत्यानङादेशः । प्रथमस्यामंत्रितनिघातः । द्वितीयस्य पादादित्वादाद्युदात्तत्वम् । संहितायां छांदसं ह्रस्वत्वम् । दूळभम् । दह भस्मीकरणे । दुःखेन दह्यत इति दुर्दहम् । ईषद्दुःसुष्वित्यादिना (पा ३-३-१२६) दुर्युपपदेः दग्धेः खल् । व्यत्ययो बहुलमित्यकारस्य ऊकारो रेफस्य लोपो दकारस्य डकारो हकारस्य च भकारः । लितीति प्रत्ययात्पूर्वमुदात्तत्वम् । कृदुत्तरपदत्वेन स एह शिष्यते । आशाथे । अशू व्याप्तौ छंदसि लुङ् लङ् लिट इति वर्तमानो लिट् । मध्यमड्विवचनमाथाम् । टेरेत्वम् । आत अदेः (पा ७-४-७०) इत्यभ्यासस्य दीर्घः । अश्नोतेश्च (पा ७-४-७२) इति प्राप्तो नुडागमोऽनित्यमागमशासनमिति निवर्तते ॥ २८ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८