मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ७

संहिता

द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।
य॒ज्ञेषु॑ दे॒वमी॑ळते ॥

पदपाठः

द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । ग्राव॑ऽहस्तासः । अ॒ध्व॒रे ।
य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥

सायणभाष्यम्

अध्वरेऽग्निष्टोमे प्रकृतिरूपे यज्ञेषु विकृतिरूपेषूक्थ्यादिषु च देवमग्निमीळते । ऋत्विजः स्तुवंति । कीदृशा ऋत्विजः । द्रविणसो धनार्थिनो ग्रावहस्तासोऽभिषवसाधनपाषाणधारिणः । कीदृशं देवम् । द्रविणोदा धनप्रदम् । यद्वा । धनप्रदोऽग्निः सोमं पिबत्विति शेषः । तमेतं मंत्रं यास्क एवं निर्वक्ति । द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवंति बलं वा द्रविणं यदेनेनाभिद्रवंति तस्य दाता द्रविणोदात्तस्यैषा भवति । द्रविणोदा द्रविणस इत्यादि (नि ८-१) सोऽयं यास्कोक्तो निर्वचनप्रपंचस्तस्मिन्नेव ग्रंथेऽवगंतव्यः ॥ द्रविणोदाः । द्रुदक्षिभ्यामिनन् (उ २-५०) नित्त्वादाद्युदात्तो द्रविणशब्दः । तद्ददातीति द्रविणोदाः । क्विप्चेति क्विप् । पूर्वपदस्य सकारोपजनश्छांदसः । रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशेषणत्वेनैकवाक्यतापक्षे द्वितीयायाः स्वादेशः । अथवौ द्रविणमात्मन इच्छंति द्रविणस्यंति । सुप आत्मनः क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः । म ७-१-५१-२ । इति क्यचि परतः सुगागमः । द्रविणस्यतेः संपदादित्वाद्भावे क्विप् । अतो लोपः । क्वौ लुप्तं न स्थानिवद्भवति । म १-१-५८-२ । इति तस्य स्थानिवत्त्वप्रतिषेधाद्यलोपः । एवं द्रविणस् शब्दो धनेच्छावचनः । द्रविणेच्छां दस्यति यथेष्टधनप्रदानेनोपक्षपयतीत्यर्थे दसु उपक्षय इत्यस्मादंतर्भावितण्यर्थात्क्विप्चेति क्विप् । एवं द्रविणोदःशब्दः सकारांतो भवति । तथा द्रविणोदसाः प्रवादा भवंतीति नैरुक्तो व्यवहार उपपद्यते (नि ८-२) अतो द्रविणोदस्शब्दो भिन्नवाक्यत्वे स्वार्थे प्रथमा । एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवति । द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोमस्येत्यर्थे सकारोपजनश्छांदसः । आद्युदात्तत्वं तु नियमेन स्थितम् । ऋत्विग्विशेषणत्वेनैकवाक्यत्वपक्षे तुक्यजंतात्क्विप् । अतो लोपादि पूर्ववत् । अत्र तु पक्षे क्यचश्चित्त्वेनांतोपातत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ग्रावयुक्ता हस्ता येषां ते ग्रावहस्तासः । आज्जसेरसुक् । ग्रावशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अध्वरे । न विद्यते ध्वरो हिंसा यस्मिन् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ईळते अनुदात्तेत्त्वादात्मनेपदम् । अदिप्रभृतिभ्य इति शपो लुक् । झस्यादादेशः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९