मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ८

संहिता

द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे ।
दे॒वेषु॒ ता व॑नामहे ॥

पदपाठः

द्र॒वि॒णः॒ऽदाः । द॒दा॒तु॒ । नः॒ । वसू॑नि । यानि॑ । शृ॒ण्वि॒रे ।
दे॒वेषु॑ । ता । व॒ना॒म॒हे॒ ॥

सायणभाष्यम्

द्रविणोदा देवो नोऽस्मभ्यं वसूनि धनानि ददातु यानि धनानि शृण्विरे हविरुपयुक्तत्वेन श्रूयंते । ता तानि च सर्वाणि धनानि देवेषु निमित्तभूतेषु वनामहे । संभजामः । धनैर्देवान्यष्टुं तानि स्वीकुर्म इत्यर्थः ॥ द्रविणोदाः । गतम् । वसूनि । शृस्वृस्निहीत्यादिना (उ १-११) उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः । शृण्विरे । श्रु श्रवणे । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । झ इरेच् (पा ३-४-८१) छंदस्युभयथेति सार्वधातुकत्वे व्यत्ययेन श्नुः । तत्संनियोगेन शृभावश्च । उवङु प्राप्ते हुश्नुवोः सार्वधातुके (पा ६-४-८७) इति यणादेशः । चित इत्यंतोदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । ता । शेश्छंदसि बहुलमिति शेर्लोपः । नलोपः प्रातिपदिकांतस्य (पा ८-२-७) इति नलोपः । वनामहे । वन षण संभक्तौ । व्यत्ययेनात्मनेपदं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९