मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ९

संहिता

द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत ।
ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥

पदपाठः

द्र॒वि॒णः॒ऽदाः । पि॒पी॒ष॒ति॒ । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।
ने॒ष्ट्रात् । ऋ॒तुऽभिः॑ । इ॒ष्य॒त॒ ॥

सायणभाष्यम्

द्रविणोदा देव ऋतुभिः सह नेष्ट्रान्नेष्टृसंबंधिपात्रात्पिपीषति । सोमं पातुमिच्छति । ततो हे ऋत्विज इष्यत । होमस्थाने गच्छत । गत्वा च जुहोत । होमं कुरुत । हुत्वा प्रतिष्ठत च होमस्थानात्स्थानांतरं प्रति प्रस्थानमपिकुरुत ॥ द्रविणोदाः । गतम् । पिपीषति । पा पाने । पातुमिच्छतीति सन् । छांदस ईकारः । तिङ्ङतिङ इति निघातः । जुहोत । लोण्मध्यमबहुवचनम् । तस्य लङ्वद्भावात्तादेशः । तस्य तप्तनप्तनथनाश्चेति तबादेशः । तस्य पित्त्वाद्गुणः । अभ्यस्तानामादिरित्यनुवृत्तावनुदात्ते च (पा ६-१-१९०) इत्याद्युदात्तत्वे प्राप्ते भीह्रीभैहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति (पा ६-१-१९२) इत्योकार उदात्तः । तिष्ठत । ष्ठा गतिनिवृत्तौ । लोण्मध्यमबहुवचनस्य थस्य लङ्वद्भावात्तादेशः । शपि पाघ्राध्मेत्यादिना तिष्ठादेशः । समवप्रविभ्यः स्थः (पा १-३-२२) इत्यात्मनेपदं न भवति । तत्रानुवृत्तस्य निर्दिष्वग्रहणस्यानंतर्यार्थत्वात् । अत्र चशब्देन व्यवधानात्ते प्राग्धातोः (पा १-४-८०) इत्युपसर्गत्वेन प्राक्प्रयोक्तव्यस्यापि प्रशब्दस्य व्यवहिताश्चेति छंदसि व्यवहितप्रयोगः । अत्र चशब्दो जुहोतेति पूर्वेण सह समुच्चयार्थः । न पुनरिष्यतेत्युत्तरेण । तेनाप्रथमत्वाच्चवायोगे प्रथमा (पा ८-१-५९) इति निषेधाभावात्तिङ्ङतिङ इति निघातः । नेष्व्रात् । पोत्राद्यज्ञं पुनीतन । ऋग्वे १-१५-२ । इत्यत्र पोत्रशब्देन यदुक्तं तदत्र द्रष्टव्यम् । इष्यत । इष गतौ लोण्मध्यमबहुवचनं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९