मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् १०

संहिता

यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे ।
अध॑ स्मा नो द॒दिर्भ॑व ॥

पदपाठः

यत् । त्वा॒ । तु॒रीय॑म् । ऋ॒तुऽभिः॑ । द्रवि॑णःऽदः । यजा॑महे ।
अध॑ । स्म॒ । नः॒ । द॒दिः । भ॒व॒ ॥

सायणभाष्यम्

हे द्रविणोदो देव यद्यस्मात्कारणादृतुभिः सह त्वां यजामहे । अधेत्ययं निपातस्तच्छब्धार्थः । तस्मात्कारणान्नोऽस्मभ्यं ददिर्भनस्य दाता भव स्म । अवश्शं भव । तुरीयं चतुर्णां पूरणं ॥ तुरीयम् । चतुरश्छयतावाद्यक्षरलोपश्च । पा ५-२-५१-१ । इति छप्रत्ययः । तस्य प्रत्ययस्वरेणोदात्तात्प्रागेवायनेयीनित्यादिना (पा ७-१-२) ईयादेशः । आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् । पा ७-१-२-१ । इति वचनात्कृत अदेशे प्रत्ययस्वरेणेकार उदात्तः । द्रविणोदः । उक्कतम् । पादादित्वादामंत्रिताद्युदात्तत्वम् । यजामहे । अत्र शपः पित्त्वेन तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव । पूर्वस्यामंत्रितस्याविद्यमानववत्त्वाद्यद्वृत्तयोगाद्वा न निघातः । व्यवहियोगेऽपि हि स निषेध इत्युक्तम् । अध । छांदसो धकारः । स्म । चादिरनुदात्तः । संहितायां निपातस्य चेति दीर्घः । ददिः । डुदाञ् दाने । आदृगमहनजनः किकिनौ लिट् च (पा ३-२-१७१) इति किप्रत्ययः । लिड्वद्भावाद्द्विर्वचनादि । आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः प्रत्ययस्वरः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९