मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् ११

संहिता

अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता ।
ऋ॒तुना॑ यज्ञवाहसा ॥

पदपाठः

अश्वि॑ना । पिब॑तम् । मधु॑ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी । शु॒चि॒ऽव्र॒ता॒ ।
ऋ॒तुना॑ । य॒ज्ञ॒ऽवा॒ह॒सा॒ ॥

सायणभाष्यम्

हे अश्विनौ मधु माधुर्योपेतं सोमं पिबतम् । कीदृशौ । दीद्यग्नी द्योतमानाहवनीयाद्यग्नियुक्तौ शुचिव्रता शुद्ध कर्माणौ ऋतुना ऋतुदेवतया सह यज्ञवाहसा यज्ञस्य निर्वाहकौ ॥ अश्विना । संबोधनद्विवचनस्य सुपां सुलुगित्याकारः । अमंत्रिताद्युदात्तः । पिबतम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्व धातुकस्वरेण धातुस्वर एव शिष्यते । मधु । फलिपाटीत्यादिना । उ । १-१९ । उप्रत्ययः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । दीद्यग्नी । दिवु क्रीडादौ । अन्येभ्योऽपि दृश्यंत इति विच् । वेरपृक्तलोपाद्वलि लोपो बलीयानिति प्रथमवकारस्य लोपः । पा ६-१-६६, ६७ । प्रथमं प्रत्ययलोपे हि वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति । परि २१ । इति निषेधाद्वलिलोपो न स्यात् । छांदसं द्विर्वचनम् । तुजादित्वादभ्यासस्य दीर्घत्वम् । यङ् लुगंताद्वा संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । दीदिरग्निर्ययोस्तौ दीद्यग्नी । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः । शुचिव्रता शुचि व्रतं ययोस्तौ । सुपां सुलुगित्याकारः । दीद्यग्निशब्दस्य सामान्यवचनत्वेन नामंत्रित इत्यविद्यमानवत्त्वप्रतिषेधादाष्टमिकनिघातत्वम् । पूर्वस्य परांगवद्भावाद्वैकस्वर्यम् । यज्ञवाहसा । वह प्रापणे । यज्ञं वहत इति यज्ञवाहसौ । वहिहाधाञ् भ्यश्छंदसि उ ४-२२० । इत्यसुन् । तत्र हि गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्सोपपदानामपि भवति (उ ४-२२६) इत्युक्तम् । णिदित्यनुवृत्तेरुपधावृद्धिः । सुपां सुलुगित्यादिना विभक्तेराकारः । आमंत्रितनिघातः । असामर्थ्यात्पूर्वस्य न परांगवद्भावः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९