मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५, ऋक् १२

संहिता

गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि ।
दे॒वान्दे॑वय॒ते य॑ज ॥

पदपाठः

गार्ह॑ऽपत्येन । स॒न्त्य॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽनीः । अ॒सि॒ ।
दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥

सायणभाष्यम्

हे संत्य फलप्रदाग्निदेव गार्ह्यपत्येन गृहपतिसंबंधिना रूपेण युक्तः सन् ऋतुना ऋतुदेवेन सह यज्ञनीर्यज्ञस्य निर्वाहकोऽसि । तस्मात्त्वं देवयते देवविषयकामनायुक्ताय यजमानाय देवान्यज ॥ गार्हपत्येन । गृहपतिना संयुक्ते ञ्यः (पा ४-४-९०) यस्येति लोपः । ञित्त्वादादिवृद्धिराद्युदात्तत्वं च । गृहपतित्वमित्यर्थे पत्यंतपुरोहितादिभ्यः (पा ५-१-१२८) इति यकि त्वंतोदात्तत्वं स्यात् । संत्य । सनने भव । षणु दाने । क्तिच् क्तौ चेति क्तिच् । न क्तिचि दीर्घश्च (पा ६-४-३९) इति दीर्घनलोपाभावः । भवे छंदसि (पा ४-४-११०) इति यत् । तत्र साधुः (पा ४-४-९८) इति वा । निघातः । यज्ञं नयतीति यज्ञनीः सत्सूद्विषेत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरः । देवयते । देवानात्मन इच्छतीति देवयन् । तस्मै । क्यचि चेतीत्वं न भवति । न च्छंदस्यपुत्रस्येति निषेधात् । अश्वाघस्य (पा ७-४-३७) इत्यात्वविधानादीत्वनिषेधे प्राप्तस्य दीर्घस्याप्येप निषेध इत्युक्तम् । शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । अत्र क्यचश्चित्त्वादंतोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणोभयोः क्यचा सहैकादेश एकादेश उदात्तेनोदात्त इत्युदात्तः । तस्मादंतोदात्तत्वात्परस्या विभक्तेः शतुरनुमो नद्यजादी इत्युदात्तत्वं ॥ २९ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९