मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् १

संहिता

आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये ।
इन्द्र॑ त्वा॒ सूर॑चक्षसः ॥

पदपाठः

आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वृष॑णम् । सोम॑ऽपीतये ।
इन्द्र॑ । त्वा॒ । सूर॑ऽचक्षसः ॥

सायणभाष्यम्

हे इंद्र वृषणं कामानां वर्षितारं त्वां सोमपीतये सोमपानार्थं हरयस्त्वदीया अश्वा आ वहंतु । अस्मिन्कर्मण्यानयंतु । तथा सूरचक्षसः सूर्यसमानप्रकाशयुक्ता ऋत्विजस्त्वां मंत्रैः प्रकासयंत्विति शेषः ॥ हरंतीति हरयः । इन् सर्वधातुभ्यः (उ ४-११७) इतीन् । नित्त्वादाद्युदात्तः । वृषणम् । कनिन्युवृषितक्षीत्यादिना कनिन् । कित्त्वाल्लघूपधगुणाभावः । वाषपूर्वस्य निगमे (पा ६-४-९) इति विकल्पितमुपधादीर्घत्वम् । सोमपीतये । ऐभिरग्न इत्यत्रोक्तम् । ऋग्वे १-१४-१ सूरचक्षसः । चक्षिङ् व्यक्तायां वाचि । सर्वधातुभ्योऽसुन् । चक्षिङः ख्याञ् (पा २-४-५४) इति न भवति । अनसोः प्रतिषेधो वक्तव्य इति निषेधात् । षू प्रेरणे । सुवतीति सूरः । सुसूधागृधिभ्यः क्रन् (उ २-२४) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । सूरवत्ख्यानं प्रकाशो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०