मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् २

संहिता

इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः ।
इन्द्रं॑ सु॒खत॑मे॒ रथे॑ ॥

पदपाठः

इ॒माः । धा॒नाः । घृ॒त॒ऽस्नुवः॑ । हरी॒ इति॑ । इ॒ह । उप॑ । व॒क्ष॒तः॒ ।
इन्द्र॑म् । सु॒खऽत॑मे । रथे॑ ॥

सायणभाष्यम्

हरिशब्द इंद्ररथस्य वोढारावश्वावाचष्टे । तथा च श्रुत्यंतरम् । हर्योः स्थातेति । हरिभ्यं त्वेंद्रो देवतां गमयत्विति च । एतदेवाभिप्रेत्य निघंटुकार आह । हरी इंद्रस्येति । तादृशौ हरी इमा यागार्थं वेद्यामासादितत्वेन पुरोवर्तिनीर्धाना भ्रष्टयवतंडुलानुद्दिश्य सुखतमे रथ इंद्रमवस्थाप्येहास्मिन्कर्मण्युप वक्षतः । वेदिसमीपे वहताम् । कीदृशीर्धानाः । घृतस्नुवोऽलंकरणोपस्तरणाभिघारणेन घृतस्राविणीः ॥ धीयंत इति धानाः । धापृवस्यज्यतिभ्यो नः (उ ३-६) इति नः । प्रत्ययस्वरः । घृतस्नुवः । घृतं स्नुवंतीति घृतस्नुवः । क्विपि तुगभावश्छांडसः । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । स्नोः संयोगपूर्वत्वेन यणभावादुवङादेशः । हरी । हृञ् हरणे । सर्वधातुभ्य इन् । नित्त्वादाद्युदात्तः । प्रगृह्यत्वात्संहितायां प्रकृतिभावः । वक्षतः । प्रार्थनाख्ये लिङर्थे लेट् । तस्य प्रथम पुरषद्विवचनं तस् । लेटोऽडाटावित्यडागमः । शपि प्राप्ते सिब्बहुलुं लेटेति सिप् । ढत्वकुत्वषत्वानि । तिङ्ङतिङ इति निघातः । सुखतमे । गतं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०