मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ३

संहिता

इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥

पदपाठः

इन्द्र॑म् । प्रा॒तः । ह॒वा॒म॒हे॒ । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

प्रातः कर्मारंभे प्रातःसवन इंद्रं हवामहे । आह्वयामः । तथैवाध्वरे सोमयागे प्रयति प्रगच्छति प्रारभ्य वर्तमाने सति माध्यंदिने सवने तमिंद्रं हवामहे । तथा यज्ञ समाप्त्यवसरे तृतीयसवने सोमस्य पीतये सोमपानार्थं हवामहे ॥ प्रातः । स्वरादिष्वंतोदात्तो निपातितः । हवामहे । ह्वेञोलट शपि परतो ह्वः । संप्रसारणमित्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । प्रयति । इण् गतौ । लटः शतृ । अदिप्रभृतिभ्यः शप इति शपो लुक् । शतुर्ङित्त्वाद्गुणाभावः । प्रादिसमासः । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । परि २८ । इति वचनात्प्रत्ययग्रहण इति नियमाभावत् शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । अध्वरे । उक्तम् । संहितायामुदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (पा ८-२-४) इत्यकारस्य स्वरितत्वम् । पीतये । पा पाने । क्तिनिछांदसमंतोदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०