मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ५

संहिता

सेमं न॒ः स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् ।
गौ॒रो न तृ॑षि॒तः पि॑ब ॥

पदपाठः

सः । इ॒मम् । नः॒ । स्तोम॑म् । आ । ग॒हि॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
गौ॒रः । न । तृ॒षि॒तः । पि॒ब॒ ॥

सायणभाष्यम्

हे इंद्र स त्वं नोऽस्मदीयमिमं स्तोमं स्तुतिं प्रत्या गहि । आगच्छ । आगमने हेतुरुच्यते । उप देवयजनसमीपे सुतमभिषुतसोमयुक्त मिदानीमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्म वर्तते । तस्माद्गौरो न गौरमृग इव तृषितः सन्निमं सोमं पिब ॥ सः इममित्यत्र संहितायां सोऽचि लोपे चेत्पादपूरणम् (पा ६-१-१३४) इति सुलोपः । गहि । गतम् । सवनम् । सूयतेऽस्मिन्सोम इत्यधिकरणे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । लुडंतात्सप्तम्याः सुपां सुपो भवंतीति वक्तव्यम् (म ७-१-३९) इति वचनाद्द्वितीया । अभिषंतसोमयुक्तमिदं सवनमिति कर्मण्येव वा द्वितीया । तदा सुतशब्दादर्शआदित्वादच् (पा ५-२-१२७) तृषितः । ञितृष पिपासायाम् । निष्ठेति क्तः । प्रत्ययस्वरेणोदात्तः । पश्चादिट आगमा अनुदात्ता इत्यनुदात्तत्वं ॥ ३० ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०